________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः
सूत्रस्थानम् ।
७११ तैरावृतगतिर्वायुरोज आदाय गच्छति । यदा वस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते ॥ स मारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः । दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः ॥ ३८ ॥ उपेक्षयास्य जायन्ते पिड़काः सप्त दारुणाः । मांसलेष्ववकाशेषु मर्मस्वपि च सन्धिषु ॥ शराविका कच्छपिका जालिनी सर्वपी तथा।
अलजी विनताख्या च विद्रधी चेति सप्तमी ॥ ३६॥ व्यायामादीनां श्लेष्मादिकं प्रवर्द्धते। तैः प्रवृद्धैराटतगतिर्वायुयंदा तु ओज आदाय वस्तिमागच्छति तदा तेषां सर्वएवमेहः कृच्छः कृच्छसाध्यो मधुमेहः प्रवर्तते मधमेहरूपेण परिवत्तते। स मधुमेहः मुहुमुहुः कदाचित् मारुतस्य कदाचित् पित्तस्य कदाचित् कफस्य आकृतिं दर्शयति, मुहुमुहुः क्षयं गच्छति, क्षयं गवा च पुनराप्यायते वृद्धिमानोति । अकारणमेवैवं स्यादिति ॥३८॥
गङ्गाधरः---अस्य मधुमेहस्य उपेक्षया अचिकित्सया प्रतिकाराकरणे दारुणाः सप्त पिड़का जायन्ते । मांसलादिषु मात्रावकाशेषु । तथा चोक्तं-मधुमेहे मधसमं जायते स किल द्विधा। क्रुद्ध धातुक्षयात् वायो दोषाटतपथेऽथवा। आटतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन् । क्षीणः क्षणात् क्षणात् पूणो भजते कच्छ. साध्यताम् ॥ इति । स एवायं कृच्छसाध्यो मधुमेहः। अस्मिन् उपेक्षिते सप्त पिड़काः स्युः। यश्चासाध्यस्तत्र न पिड़काः स्युरिति । सुश्रुते तु प्रमेहिणो दश पिडका भवन्तीति यदुक्तं, तत्र पुत्रिणीममूरिकाविदारिकाणां तिमृणां नातिपीडाकरत्वेन गणनयात्र नोपदेशः कृतः। तासाश्च पिडकानामुपसंहारार्थमथान्याः पिडकाः सन्तीत्यादि वक्ष्यते। पिडकानामुत्पत्तिप्रदेशमाह-मांसलेष्वित्यादि। ताः सप्ताह--शराविकेत्यादि। शराविकादिषट्संशा यौगिक्यः स्वस्खलक्षणे स्फटीकृताः। अलजी तु रूढिसंज्ञा ॥३९॥ क्रमेणाह-गुर्खित्यादि। नवं पानमिति नवं मद्यम् । निद्रामास्यासुखानि चेत्यत्रान्ते भजतामिति शेषः । ओजः प्रसादो धातूनामिति यावत् ; कृच्छ इति कृच्छ्रसाध्यः, उपेक्षयाऽचिकित्सया ;
For Private and Personal Use Only