________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१०
चरक-संहिता। कियन्यःशिरसीयः व्यायामोऽनशनं चिन्ता रुनाल्पप्रमिताशनम । वातातपो भयं शोको रुनपानं प्रजागरः॥ कफशोणितशुक्राणामतिवर्त्तनमोक्षणम। कालो भूतोपघातश्च विज्ञ याः क्षयहेतवः ॥ ३७॥ गुरुस्निग्धाम्ललवणान्यतिमात्र निविणाम । नवमन्नञ्च पानञ्च निद्रामास्यासुखानि च ॥ त्यक्तव्यायामचिन्तानां संशोधनमकुर्वताम।
श्लेष्मा पित्तञ्च सोदश्च मांसञ्चातिप्रवर्द्धते ॥ क्षयश्च स्वरभङ्गरोगलक्षणे बोध्यः । ५। उदकक्षयस्तु ताल्वोष्ठकण्ठक्लोमसंशोषपिपासादिभिलक्षणैरुदकवहानि स्रोतांस्यस्य दुष्टानीति व्यवस्येत् । इति ॥३६॥
गङ्गाधरः–क्षयलक्षणानि अष्टादशानामुक्त्वा तेषां क्षयनिदानानि आहव्यायाम इत्यादि। अल्पाशनं मानतः प्रमिताशनम्, अनशनं लङ्घनम् । कफशोणितशुक्राणामतिवर्त्तनमतिप्रवृत्तिः, वमनातियोगेन कफस्य । शोणितस्यातिमोक्षणं सिराव्यधादिभिः। शुक्रस्य अतिमोक्षणमतिमैथुनादिना। कालो वार्द्धक्यातुर्यादिः। भूतोपघातः पिशाचायभिषङ्गः। एते क्षयहेतवो विशे याः। ननु व्यायामादिकं वातपित्तप्रकोपकं कथं क्षयहेतुरिति चेत् ? न। साधारणतया क्षयहेतुखेनोक्त्या यथाह हेतुतया व्याख्येयं। यद् यस्य विशेषवत् तस्य क्षयहेतुस्तदिति व्यायामेनातियुक्तेन कफक्षयः स्यात् । वातपित्तक्षयस्तु अतिस्निग्धायशनादिना स्यादित्येवं यथाहता अत्र बोध्या ॥३॥
गङ्गाधरः-इति क्षयानुक्त्वा सप्त पिड़का माधुमेहिका इति यदुदिष्टं तस्य विस्तरं प्रवक्ति-गुरुस्निग्धेत्यादि । निद्रामास्यासुखानि च भजतामिति शेषः । मेहिनामित्यर्थादापद्यते। मेहिनां गुर्बाद्यश्नतां निद्रास्यासुखभजतां त्यक्त
चक्रपाणिः-सामान्येन आयाणां हेतुमाह-व्यायाम इत्यादि। प्रमिताशनम् एकरसाभ्यासः, अतिवर्तन मतिप्रवृत्तिर्वहिर्गमनमिति यावत, कालो वाई क्यमादानञ्च, भूतोपघातः पिशाचाद्य प. प्रातः। अत्र वातक्षयहेतुक्तिो विलक्षणत्वात, स चाचिन्तनदिवास्वपनादियः, किंवा भनशनात् किट्टाभावः, ततश्च किट्टरूपस्य वातस्याप्यनुत्पादात् क्षयो ज्ञेयः ॥ ३ ॥
चक्रपाणिः-सम्प्रति सप्त पिड़का वक्तव्याः, अतस्तासां प्रधानहेतुत्वेन प्रमेहान् तावनिदानादि
For Private and Personal Use Only