________________
Shri Mahavir Jain Aradhana Kendra
१७श अध्यायः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
७०६
1
भवन्ति । सन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्व विस्र से | स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने । मूर्च्छा मांसक्षयो मोहः प्रलापो मरणमिति क्षये । भवन्ति चात्रयो दोषा बलस्योक्ता व्यापद्विस्र सनक्षयाः । विश्लेषसादौ गात्राणां दोषवित्र सनं श्रमः || अप्राचुय्यं क्रियाणाञ्च बलविस सलक्षणम् । गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भदनम् ॥ तन्द्रा निद्रा वातशोको बलव्यापदि लक्षणम् । मूर्च्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च । पूर्वोक्तानि च लिङ्गानि मरणश्च बलक्षये ॥ इति । तत्र विस्र से व्यापन्ने च क्रियाविशेषैरविरुद्धः बलमास्थापयेत् । नष्टसंज्ञमितरञ्च वज्र्जयेत् । " तन्त्रान्तरेऽपि - "भ्रमरः फलपुष्पेभ्यो यथा संहियते मधु । तद्वदोजः शरीरेभ्यो गुणैः संहियते नृणाम् ।” इति । तदेव यथा जायते तदुक्त' 'प्रथमे जायते ह्योजः" इत्यादिना । एते चाष्टादश क्षया आविष्कृततयैवोक्ताः, न तु निरवशेषेण । सन्ति हि शारीरभावास्तेभ्योऽधिकाः स्वेदार्त्तव स्तन्यगर्भस्वरोदकादयः, तेषाञ्च क्षया उन्नेयाः । उक्तश्च सुश्रुते - "तेजोऽप्याशयं क्रमशः पच्यमानानां धातूनामभिनिवृत्तमन्तरस्थं स्नेहजातं रसाख्यं स्त्रीणां विशेषतो भवति । तेन मार्दवसौकुमार्य्यमृद्वल्पलोमतोत्साहदृष्टिस्थितिपक्तिकान्तिदीप्तयो भवन्ति । तत् कषायतिक्तशीतरुक्ष विष्टम्भवेगविघातव्यवाय- व्यायामव्याधिकर्षणैश्च विक्रियते । तस्यापि पारुष्यवर्णभेद तोद निष्प्रभवानि विस्रं सने भवन्ति । कामन्दाग्रिताधस्तिर्य्यकच्युतिर्व्यापत्तौ । दृष्टाशिबलहान्यनिलप्रकोपमरणानि क्षये” । इति । तथा स्वेदक्ष यलक्षणमप्युक्तं स्वेदक्षये स्तब्धरोमकूपता वकशोषः स्पर्शवैगुण्यं स्वेदनाशश्च । तत्राभ्यङ्गस्वेदोपयोगश्च । १ । आर्त्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च । तत्र संशोधनमान यानाश्च द्रव्याणां विधिवदुपयोगः । २ । स्तन्यक्षये स्तनयोग्लनता स्तन्यासम्भवोऽल्पता वा तत्र श्लेष्मवद्ध नद्रव्योपयोगः | ३ | गर्भक्षये गर्भस्य अस्पन्दनमनुन्नतकुक्षिता च, तत्र प्राप्तवस्तिकालायाः क्षीरवस्तिप्रयोगो मेध्यान्नोपयोगश्च ति । ४ । स्वर - खल्वोजः" इति । अन्यत्राप्युक्त - "भ्रमरैः फलपुष्पेभ्यो यथा संहियते मधु । तद्वदोजः शरीरेभ्यो गुणैः संहियते नृणाम् ||" इति । प्रथमे जायते इत्यादिपाठस्तु नातिप्रसिद्धः । एतेऽष्टादश क्षया आविष्कृततमत्वेनोक्ताः तेन उदकक्षयस्वरक्षयाद्यनभिधानं नोद्भावनीयम्" उक्त हि - "स्वरक्षयसुरोरोगम्' इति । तथोदकक्षयलक्षणं, यथा- 'ताल्वोष्ठकष्ट कोमसंशोषं पिपासाञ्च दृष्ट्वा उदकवाहान्यस्य दुष्टामीति जानीयात्" इति ॥ ३४-३६ ॥
,
For Private and Personal Use Only