________________
Shri Mahavir Jain Aradhana Kendra
७०८
www.kobatirth.org
चरक संहिता |
प्रथमे जायते ह्योजः शरीरेऽस्मिञ्छरीरिणाम् । सर्पिर्व मधुरसं लाजगन्धि प्रजायते ॥ ३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
;
1
बिन्दुमितौजसो नाशान्ना पुरुषो विनश्यति, अर्द्धाञ्जलिमितस्य (ओजसः) क्षये तु न नश्यतीति व्याचष्टे, तन्न । सुश्रुते चार्द्धाञ्जलिमितस्य ओजस स्त्रिविधः क्षय उक्तः । वित्र सो व्यापत् क्षयश्चेति । तत्राद्ययोश्चिकित्सितमुक्तम् । क्षये मरणमुक्तं तदनुपपत्तेः । तस्माद् यदेवार्द्धाञ्जलिमितं तदेवाष्टबिन्दुमितं भवति । विन्दुशब्देनात्र कपेः । कर्षाष्टकमर्द्धाञ्जलिर्भवति । तस्यार्द्धाञ्जलिमितस्य स्थानं हृदयम् । तच्च शुद्धमीषद्रक्तं सपीतकम् । तस्यौजसः क्षये विस्र से व्यापदि च विभेतीत्यादिलक्षणं भवति । द्विया हि विस्र से व्यापदि च लक्षणं भवति । तत्रैकविधमिहोक्तं सुश्रुतेऽन्यविधमुक्तम् । न हि सर्व्वः सर्व्वं वक्तीति । तदोजसस्तु नाशात् सर्व्वशः क्षयान्ना पुमान् विनश्यति । इति द्वयो - रविरोधः ।। ३५ ।।
1
1
गङ्गाधरः - तस्योजस उत्पत्तिक्रममाह-- प्रथम इत्यादि । रसादीनां सव्र्वेषां यत् परं तेजस्तदेवौजः प्रथमेऽस्मिञ्छरीरे शरीरिणां सर्पिर्वर्ण मधुरसं जायते । ततो लाजगन्धि प्रजायते । इति । सुश्रुते चोक्तं- “तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजः । तदेव बलमितुप्रच्यते स्वशास्त्रसिद्धान्तात् । तत्र बलेन स्थिरोपचितमांसता सर्व्वचेष्टास्वप्रतीघातः स्वरवर्णप्रसादो वाह्यानाम् आभ्यन्तराणाञ्च करणानामात्मकाय्र्यप्रतिपत्तिर्भवति । भवन्ति चात्र - ओजः सोमात्मकं स्निग्धं शुक्ल पीतं स्थिरं सरम् । विविक्तं मृदु मृत्स्त्रञ्च प्राणायतनमुत्तमम् ॥ देहः सावयवस्तेन व्याप्तो भवति देहिनाम् । तदभावाच्च शीय्यन्ते शरीराणि शरीरिणाम् || अभिघातात् क्षयात् कोपाच्छोकाद्धानाच्छ्रमात् क्षुधः । ओजः संक्षीयते ह्यभ्यो धातुग्रहणनिःसृतम् ॥ तेजः समीरितं तस्माद्विस्रंसयति देहिनाम् ॥ तस्य विस्र सो व्यापत् क्षय इति लिङ्गानि व्यापन्नस्य
[ कियन्तः शिरसीयः
;
इति एतच्चाबिन्दुकं परमोजो ज्ञेयम्, अर्द्धाञ्जलिपरिमाणन्तु यदोजस्तदप्रधानम् । यच्छारीरे वक्ष्यति - " तावच्चैव श्मेष्मण ओजसश्च प्रमाणम्" इत्यनेन ; तस्माद्विविधमिहोजः; अत एव अर्थे दशमहामूलीये वक्ष्यति - तत् परस्यौजसः स्थानम् इति परस्य श्रेष्टस्याष्टबिन्दुकस्येत्यर्थः । इह च क्षयलक्षणमर्दाञ्जलिमानस्यैव ज्ञेयम्, अष्टविन्दुकस्य त्ववयवनाशेऽपि मृत्युर्भवतीति "हृदि" इत्यादिना ग्रन्थेन दर्शयति एतच्चौजः सर्व्वधातुसमुदायरूपं तेन सप्तधातुष्वेवावरुद्धमिति नाष्टमधातुत्वादिप्रसक्तिः अत एव सुश्रुतेऽप्युक्तं - " रसादीनां शुक्रान्तानां तत् परं तेजस्तत्
For Private and Personal Use Only