________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०७
१७श अध्यायः ।
सूत्रस्थानम् । बिभेति दुर्बलोऽभीषणं ध्यायति व्यथितेन्द्रियः । दुश्छायो दुर्मंना रुक्षः नामश्चैवौजसः नये ॥ ३४॥ हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम्।
ओजः शरीरे संख्यातं तन्नाशान्ना विनश्यति ॥ ३५॥ दीनि भवन्ति ( २ )। प्राधान्यात् पुरीपमूत्रक्षयलक्षणानि पठिता शेषाणां पञ्चानां श्रोत्रमलखमलनेत्रमलरसनामलनासिकामलानां सङ्क्ष पेण लक्षणानि आह—मलायनानि चेत्यादि। यथास्वं मलसंक्षयात् श्रोत्रादीनां स्वस्वमलसंक्षयात् मूत्रपुरीपायतनाभ्यामन्यानि मलायनानि, श्रोत्ररन्ध्र व खगधिष्ठानं बगगतलोमकूपमात्रं चक्षुपोऽधिष्ठान चक्षुर्गोलके द्वे रसनाधिष्ठानं जिह्वा घ्राणाधिष्ठान द्वे नासारन्ध्र । एतानि मलायनानि शुन्यानि च लघूनि च विशुष्काणि च लक्षान्ते। इति श्रोत्रादिमलक्षयलक्षणोनि (५)। पारिशेष्यात् ओजसः क्षयलक्षणमाह-विभेतीत्यादि । ओजसः क्षयेऽहेतु बिभेति । दुर्बलः स्यात्। अभीक्ष्णं ध्यायति। सन्द्रियेषु व्यथा पीड़ा भवति। दुश्छायो मन्दच्छविः। टुम्मैना दुबैलमनाः । क्षामः क्षीणदेहः । इति ॥३४॥
गङ्गाधरः ओजसः क्षयलक्षणमुक्त्वा तस्यौजसो लक्षणमाह---हृदीत्यादि। हृदये तिष्ठति यच्छुभ्र शुक्लवर्णमीषद्रक्तं सपीतकमीपत्पीतवणं तच्छरीरे ओजः संख्यातम् । तस्यौजसो नाशान्ना पुरुषो विनश्यतीत्युक्त्या त्विदमष्टबिन्दुमानमोजः ख्यापितम् । तदवयवनाशमात्रान्ना नश्यति । तत्रान्तरे चोक्तं-"प्राणाश्रयस्योजसोऽष्टौ विन्दवो हृदयाश्रयाः” इति। शारीरे च वक्षाते-- “तावच्चैव श्लेष्मणश्चैजसः” इति अनेनार्दाञ्जलिमानं यदोजः तस्यैवेदं लक्षणम्। न हि तस्यावयवनाशे नृणां नियमतो मरणम् । अस्यार्धाञ्जलिमितस्यौजसः क्षये बिभेति दुर्बलोऽभीक्ष्णमित्यादिलक्षणं भवति न तु मरणमिति। कश्चित् तु-"अष्टविन्दुमितन्तु प्रधानं हृदि तिष्ठति” इत्यादिलक्षणमिति। तस्याष्टत्वगिन्द्रियाधिष्टानभूतानाञ्च लोमकूपप्रजननानां यथास्वं मलायनानि गृह्यन्ते ; यदुक्त जबूकणे"दोषाणां धातूनां ओजोमूत्रशकृदिन्द्रि यमलायनानामष्टादश क्षयास्ते लक्ष्याः स्वगुणक्रियानाशात्" इति । ओजःक्षयलक्षणमाह-बिभेतीत्यादि।-दुर्मना मनोबलविहीनः। ओजसो दर्शयत्वेन लक्षणमाह-हृदीत्यादि।-शुद्धमिति शुक्लम्, रक्तमीषदिति किञ्चिद्रक्त, सपीतकमिति ईपत्पीतकं, तेन शुक्लवर्णमोजः, रकपीती तु वर्णावत्रानुगतो ; किंवा, ईषदित्यरूपप्रमाणं, तेन अष्टबिन्दुकमोज इति दर्शयति, यदुक्त तन्त्रान्तरे-"प्राणाश्रयस्यौजसोऽौ बिन्दधो हृदयाश्रयाः"
For Private and Personal Use Only