________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०६
चरक संहिता |
केशलोमनखश्मश्रु - द्विजप्रपतनं श्रमः । ज्ञेयमस्थिक्षये रूपं सन्धिशैथिल्यमेव च ॥ शीर्य्यन्त इव चास्थीनि दुर्बलानि लघूनि च । प्रततं वातरोगाणि ती मज्जनि निर्दिशेत् ॥ दौर्बल्यं मुखशोषश्च पाण्डुता सदनं भ्रमः । क्लव्यं शुक्राविसर्गश्च चीणशुक्रस्य लक्षणम् ॥ क्षीणे शकृति चान्त्राणि पीड़यन्निव मारुतः । रुक्षस्योन्नमयेत् कुक्षिं तिर्य्यगूर्द्धञ्च गच्छति ॥ मूत्रक्षये मूत्रकृच्छ्र, मूत्रवैवर्ण्यमेव च । पिपासा बाधते चास्य मुखञ्च परिशुष्यति ॥ मलायनानि चान्यानि शून्यानि च लघूनि च । विशुष्काणि च लक्ष्यन्ते यथास्वं मलसंक्षये ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ कियन्तः शिरसीयः
कृशत्वमिति लक्षणम् ( ४ ) | केशेत्यादि । अस्थिक्षये केशादीनां प्रपतनम् । श्रमस्तु अनायासे । सन्धिशैथिल्यञ्च लक्षणं ज्ञेयम (५) । शीय्यन्त इत्यादि । मज्जनि क्षीणेsस्थीनि शीर्य्यन्त इव । तथा दुर्बलानि लघूनि चास्थीनि भवन्ति । प्रततं सततं वातरोगयुक्तान्याप्यस्थीनि स्युः । तथा निद्दिशेत् ( ६ ) | दौर्बल्यमित्यादि । सदनमङ्गावसादः । भ्रमो गात्रघणनम् । क्लैव्यं स्त्रीध्वशक्तिः । शुक्रस्य चावि सर्गः स्त्रीसंसर्गेऽल्पविसर्गो वा क्षीणशुक्रस्यैतल्लक्षणम् (७) । सुश्रते च क्षयलक्षणानि वातादीनामुक्तानि - “ तत्र वातक्षये मन्दचेष्टत्वमल्पवाक्त्वमल्पहर्षो मूढ़संज्ञता च (१) । पित्तक्षये मन्दोष्माग्निता निष्प्रभवञ्च ( २ ) । श्लेष्मक्षये रुक्षतान्तर्दाहः । आमाशयेत राशयशिरसां शून्यता । सन्धिशैथिल्यं तृष्णा दौर्बल्यं प्रजागरणञ्चेति (३) ।” अथ मलानां सप्तानां क्षयलक्षणान्याह - क्षीणे' शकृतीत्यादि । क्षीणे पुरीषे रुक्षस्य मारुतो वृद्धः सन्नत्राणि पीडयन्निवोद्ध नमयेत् कुक्षिश्च तिय्यगूर्द्ध गच्छति (१) । मूत्रक्षय इत्यादि । सूत्रक्षये मुत्रकृच्छ्राकर्मणि शेषलक्षणा पष्ठी । मलायनानीत्यनेन पञ्चेन्द्रियाधिष्टानानां मुखनासिकाचक्षुः कर्णानां * श्रम इति चक्रः ।