________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shrike
१७श अध्यायः] _सूत्रस्थानम् ।
७०५ वातादीनां रसादीनां मलानामोजसस्तथा।। क्षयास्तत्रानिलादीनामुक्तं संक्षीणलक्षणम् ॥ ३३ ॥ घट्टते सहते शब्दं नोच्चैद्रवति शूलति । हृदयं ताम्यति स्वल्प-चेष्टस्यापि रसक्षये ॥ परुषा स्फुटिता ग्लाना त्वग रुक्षा रक्तसंक्षये। मांसक्षये विशेषण स्फिगग्रीवोदरशुष्कता ॥ सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च ।
लक्षणं मेदसि क्षीणे तनुत्वञ्चोदरस्य च ॥ वर्णः शौर्य हर्ष इत्येवमादीनि यानि शुभानि।” अथाकुपितस्य कफस्य कर्माणि -“दाय मुपचय उत्साहो कृपता ज्ञानं बुद्धि रित्येवमादीनि यानि शुभानि।" एतानि प्राकृतानि कर्माणि क्षीणा वातादयी जहति । प्राणादिभेदेन वातादीनां प्राकृतकम्मोणि वातकलाकलीये व्याख्यातानि ॥३२॥
गङ्गाधरः-अथ दश चाष्टौ क्षया इतुप्रद्दिष्ट विस्तरं प्रवक्ति-वातादीना. मित्यादि। वातादिरसादिसप्तधातुसप्तमलादीनामोजसश्च क्षया अष्टादश । तत्रानिलादीनां क्षीणा जहति लिङ्ग स्वम् इत्यनेन संक्षीणलक्षणमुक्तम् ॥३३॥
गङ्गाधरः-सप्तानां रसादीनां क्षयान् सप्ताह घट्टत इत्यादि । रसस्य संक्षये हृदयं घट्टते विलोड़यते। तथोच्चैः शब्दं न सहते हृदयम् । तथा हृदयं द्रवति धावते धकधक करोति। शूलति शूलयुक्तं भवति। ताम्यति च ग्लायति । स्वल्पचेष्टस्येत्यनेन स्वल्पचेष्टा भवति (१) । परुषेत्यादि । रक्तसंक्षये खक परुपा च स्फुटिता च म्लाना च रुक्षा च भवति (२)! मांसक्षये विशेषेण स्फिगादिशुष्कता। तेभ्योऽन्यत्र च शुष्कता स्वल्पा ( ३ ) सन्धीनामित्यादि। मेदसि क्षीणे सन्धीनां स्फुटनम् । अक्ष्णोग्लानिः। आयासो देहे। उदरस्य तनुवं अन्यत्राप्युन्नेयम्, अतिवृद्धेन वायुना श्लंघमणो दुर्बलस्य दुष्टत्वाद विरोधो भवत्येव, क्वचिन्नतावता संसर्गसन्निपातासम्भवः ॥ ३२ ॥
चक्रपाणिः-सम्प्रत्ययादश क्षयानाह ---वातादीनामित्यादि।-अत्र मलानामित्यनेन मूत्रपुरीषयोः पन्चेन्द्रियमलानाञ्च ग्रहणम् । विशेषेणेतिवचनादन्यगात्राणामपि शुष्कता लभ्यते ॥३॥
चक्रपाणिः-सन्धीनामित्यादि मेदःक्षयलक्षणम् । केशेत्यादि अस्थिक्षयस्य । बाधते चास्येति
For Private and Personal Use Only