________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०४
। कियन्त शिरसोय :
आत्मरूपाणि । कर्माणि च श्वैत्यशैत्यकण्डस्थेय्यौत्सेधगौरव स्नेहसृप्तिक्लेदोपदेहबन्धमा नुय्य लवणचिरकारित्वादीनि इलेष्मणः कर्माणि " इति प्रवृद्धानां दोषाणां लिङ्गम् । क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुव्र्वत इति । स्वं प्राकृतं कर्म्म लिङ्गं क्षीणा दोषा जहति । त्रिशोथीये वक्ष्यते"वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते । कर्मणः प्रकृताद्धानि द्धिर्वापि विरोधिनाम् " || इति । तत् प्राकृतन्तु स्वं कर्म समानां दोषाणां स्वं स्वं कम्मे । तच्च तत्रैव त्रिशोथीये – “उत्साहोच्छ्रासनिश्वास- चेष्टायातुगतिः समा । समो मोक्षो गतिमतां वायोः कर्माविकारजम् (१) । दर्शनं पक्तिरुष्मा च क्षुत् तृष्णा देहमादवम् । प्रभा प्रसादो मेघा च पित्तकर्माविकारजम् ( २ ) | स्नेहो बन्धः स्थिरत्वञ्च गौरवं वृषता वलम् | क्षमा धृतिरलोभव कफ कम्मविकारजम् (३) ।।” इति । वातकलाकलीये चोक्तम्- “ शरीरेष चरतो वायोरकुपितस्य कर्माणि । वायुस्तत्रयन्त्रधरः, प्राणोदानसमानव्यानापानात्मा प्रवत्तकश्चेष्टानामुच्चावचानाम्, नियन्ता प्रणता च मनसः, सव्वन्द्रियाणामुद्योतकः सव्वन्द्रियार्थानाम् अतिवोढा, सव्वशरीरधातुव्यहकरः, सन्धानकरः शरीरस्य प्रवत्तको वा, अतः प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मूलम्, हर्षोत्साहयोः योनिः, समीरणोऽनः, दोषसंशोषणः, क्षेप्ता वहिमेलानां, स्थूलाणुस्रोतसां भेता, कर्त्ता गर्भाकृतीनाम्, आयुषोऽनुवृत्तिप्रत्यय भूतो भवत्यकुपितः ।” ति । पित्तस्य चाकुपितस्य कर्माणि - पक्तिदर्शनं मात्रावत्त्वसुष्मणः प्रकृति
;
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
दोषान् कुर्व्वते परं न तु विरुद्धत्वेन दोषहरणं कुर्वते, त्रिदोषकर्त्तृत्वप्रभावात् तथा आमकेऽम्लत्वं वातं हन्ति, माधुर्य्यशैत्ये तु पित्तं, श्लेष्मागञ्च कटुत्वतिक्तत्वे, अम्लं कषायशेत्याभिभूतं वातं न निहन्ति, माधुर्य्यशैत्ये वाम्लत्वाभिभूते पित्तं न जयत एवमादि; तस्माद् दोषाणां प्रभावोऽयं दृष्टत्वादवधार्यते, यत् न ते परस्परमुपन्नन्ति । एवम्भूतप्रभावत्वे तु तेषामदृष्टमेव कारणं, प्राणिनां दुःखजनकेन ह्यदृष्ट ेन तेऽविरोधेन निवेश्यन्ते, अत एव वक्ष्यति - "विरुद्धपन त्वेते गुणैनन्ति परस्परम् । दोषाः सहजसात्म्यत्वाद् घोरं विषमहीनिव ॥ सहजं दैववशात् स्वाभाविकं सात्म्यत्वम् अनेन व्याख्यानेन " यथा दोपा अन्योन्यं नोपतन्ति तथा रसरक्तादीनपि नोपन्युः" इत्यादि यदुच्यते कैश्चित् सर्व्वं तन्निरस्तम् । ननु कालदूष्यप्रकृतिभिदोषस्तुल्यो हि सन्ततं, निष्प्रत्यनीकं कुरुते" इति चिकित्सिते वक्ष्यति, तेन प्रकृतिर्दोषस्य प्रतिपक्षा भवतीत्युक्तम् । प्रकृतिश्च जन्मप्रभृतिवृद्धो वातादिरुच्यते ; " दोषानुशायिता ह्येषां देहप्रकृतिरुच्यते' इत्यादिवचनात् तदयं प्राकृतेन दोषेण दोषस्य विरोधः कथं तर्हि उपपन्नः ? उच्यते-तत्र प्रकृतेः प्रत्यनीकता इत्यर्थगुणत्वेन मन्तव्या: समानां हि प्रकृतिं प्राप्य दोषः प्रवृद्धबलो भवति, असमानान्तु प्राप्य तथा बलवान् न स्यात् न समानया प्रकृत्या हन्यते एवम्
For Private and Personal Use Only