________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः
सूत्रस्थानम् । पञ्चविशतिः, क्षयावस्थायां पञ्चविंशतिः, वृद्धिक्षयावस्थायां द्वादश । इति य उक्तास्तत्र युद्धानां क्षीणानां कानि कार्याणीति शिष्याणामाशङ्का । तत्राहप्रद्धा दोषा यथावलं स्वं लिङ्गं दर्शयन्ति । प्रकुपितलक्षणं वक्ष्यते त्रिशोथीये“दोपप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्” इति। वातकलाकलीये चोक्तं प्रत्येकं प्रकुपितलक्षणम् । तद्यथा--"कुपितस्तु खल वायुः शरीरे शरीरं नानाविधैर्विकारैरुपतपनि बलवर्णमुखायुषामुपघाताय। भनो व्याहर्षयति सङ्केन्द्रियाणि उपहन्ति विहन्ति गर्भान् विकृतिमापादयति अतिकालं वा धारयति । भयशोकमोहदैन्यातिप्रलापान् जनयति। प्राणांचोपरुणद्धि ।" इति । वक्ष्यत च महारोगाध्याये "संसद्मशव्यासङ्गभेदहर्षतर्वकम्पावमद्देचालतोदव्यथाचेष्टादीनि । तथा खरपरुषविशदशुपिरारुणकपायविरसमुखशोपमुप्तिसङ्कोचनखातादीनि वायोः काणि" इति ।
अथ कुपितस्य पित्तस्य च वातकलाकलीये..."अपक्तिरदर्शनममात्रावत्त्वमुष्मणो विकृतिवर्णी भयं क्रोधमोहावित्येवमादीन्यशुभानि यानि ।” तथा महारोगाध्याये च पित्तकाणि। तद्यथा “दाहौष्प्यपाकस्वेदक्लेदकोथसावरागाः। तथा यथास्वगन्धवणेरसादिनिबत्तनं पित्तकर्माणीति ।” एवं कुपितस्य कफस्य वातकलाकलीये शैथिल्यं कार्यमालस्यं क्लीवतामज्ञानं मोह इत्येवमादीनि यान्यशुमानि तानि कुपितस्य कफस्य कर्माणि ।” महारोगाध्याये च “श्वैत्यशैत्यगौरवस्नेहमाधुय्यस्थैय्यपैच्छिल्यमात्स्यानि श्लेष्मण वैकारिकम्, यथाबलमिति -अतिवृद्धरतिवृद्धं मध्यवृद्धैर्मध्यवृद्धमित्यादि ; लिङ्ग स्वं जहतीत्यनेन क्षीणानां प्रकृतिलिङ्गक्षयव्यतिरिक्त विकारकत्र्तृत्वं नास्तीति दर्शयति ; यतः बृद्धा उन्मार्गगामिनो दोपा दृप्यं दूपयन्तो ज्वरादीन् कुर्वन्ति, न क्षीणाः, स्वयमेव दुःस्थितत्वात् । स्वं कर्मेति प्राकृतं कर्म। एते च द्विपरिर्भेदा आविष्कृततमत्वेनोक्ताः, ते कदोषक्षये द्विदोषवृद्धौ वृद्धवृद्धतरभेदादिभ्योऽधिकत्वं नोद्धावनीयम्। ननु भवत्येवं संख्या यदि सन्निपातो दोषाणां स्यात्, स तु न भवितुमर्हति, यतः वातादीनां परस्परं विरुद्धाः सन्ति गुणाः, विरुद्धगुणानान्तु परस्परोपघातो भवति, यथा-वह्नितोययोः । नैवं, विरोधो हि भावानां कार्योन्नेयः, नान्यतो दृष्टमात्रेण कल्पयितु पार्यते ; यतः, अन्यत्र तोबदहनयोर्भेद उपलब्धः, तत् किं पाञ्चभौतिकदव्यारम्भेऽपि तयोर्विरोधात पाञ्चभौतिकं द्रव्यं न स्यात्, तोयाग्निगुणातिरेकाद्वाम्लरसो न स्यात् ; तस्मादनुपलब्धत्वाद्दोपसंसर्गे विरोधस्य स्वभावपर्यनुयोगो न युज्यते ; अथ मन्यसे --- एवं विरुद्धगुणानामपि दोषाणामविरोधे “विरुद्ध गुणसन्निपाते भूयसाऽल्पमवजीयते' इति, तथा "हासहेतुर्विशेषस्तु इति वचने तर्हि निरर्थके, न, अनयोः प्रभावात् प्रतिपादितविषयव्यतिरेके चरितार्थत्वात् ; प्रभावश्च तयाविरोधको भवत्येव ; यथा-त्रिदोषकरलिकुचगता गुणा समान्
For Private and Personal Use Only