________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०२
चरक-संहिता। वियन्तःशिरसीयः मारुतस्तु कफ हीने पित्तञ्च कुपितं द्वयम । करोति यानि लिङ्गानि शृणु तानि समासतः ॥ क्रममुदवेष्टनं तोदं दाहं स्फुटनवेपने । * अङ्गमई परीशोष हृदये धूपनं तथा ॥ २८ ॥ वातपित्तनये श्लेष्मा स्रोतांस्यपिदधद भृशम् । चेष्टाप्रणाशं मूर्छाञ्च वाकसङ्गच्च करोति हि ॥ २६ ॥ वातश्लेष्मनये पित्तं देहौजः स्रसयेच्चरत् । ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्छा क्रियानयम् ॥३०॥ . पित्तश्लेष्मक्षये वायुमआण्यभिनिपीड़यन् । प्रणाशयति संज्ञाञ्च वेपयत्यथ वा नरम् ॥ ३१ ॥ दोषाः प्रवृद्धाः स्वलिङ्ग दर्शयन्ति यथावलम् ।
क्षीणा जहति लिङ्ग स्वं समाः स्वं कर्म कुर्वते ॥ ३२ ॥ गङ्गाधरः- मारुत इत्यादि। कफ हीने वृद्धो मारुतः पित्तश्च वृद्धमिति द्वयं कुपितं यानि लिङ्गानि करोति तानि समासतः शृणु। भ्रममित्यादि। इति द्वन्द्वद्धप्रकक्ष योदाहरणानि त्रीणि ।।२८ ।।
गङ्गाधरः---अर्थकद्धि द्वन्द्वक्षयोदाहरणान्याह त्रीणि--- वातपित्तक्षय इत्यादि। श्लेष्मा वृद्धः। अपिदयदाच्छादयन् ।। २९॥
गङ्गाधरः -बालश्रेष्मक्षय इत्यादि। दहोजश्चरत् पित्तं संसयेत् क्षर यत् ॥३०॥
गङ्गाधरः--पित्तश्लेष्मक्षय इत्यादि । वायु द्धो मर्माणि हृदयादीनि ॥३१॥
गङ्गाधरः- इति द्धिक्षयोभयकृतान द्वादश दोपविकल्पानुक्त्वा शिप्याणामाशङ्कामुद्भाव्याह दोपा इत्यादि । दोषाणां द्विपष्टिविकल्पाः । वृद्धावस्थायां
चक्रपाणिः--हीनवातस्येत्यादि द्वन्द्ववृद्धिः, क्षयश्चैकरयेत्यस्योदाहरणं, देहोजो देहसारः, किंवा देहश्च ओजश्च देहौजः ॥ २६--३१॥ चक्रपाणिः--दोषाणां वृद्धि साम्यक्षयलक्षणानि पृथगाह-दोषा इत्यादि। स्वं लिङ्गमिति
* स्फुटनवेपने इत्यत्र स्फोटनमुत्तमम् तथा हृदये धूपनमित्यत्र दूयनं धूपनमिति च पाठान्तरम्।
For Private and Personal Use Only