SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७श अध्यायः सूत्रस्थानम् । ६६५ हृद्रोगं क्रिमिजन्वतैलिङ्ग बुद्धा सुदारुणम । त्वरेत जेतु तं विद्वान् विकारं शीघ्रकारिणम ॥ १६ ॥ द्वाल्वणकोल्वणः षट् स्युहीनमध्याधिकैश्च षट। समैश्चैको विकारास्ते सन्निपातास्त्रयोदश ॥ १७ ॥ शीघ्रकारिणं शीघ्रमरणकारकम् । सुश्रतेऽप्युक्तम् -- “वेगाघातोष्णरुक्षान्नरतिमात्रोपसेवितैः। विरुद्धाध्यशनाजीणरसात्म्यैश्चापि भोजनैः॥ दूषयिखा रसं दोषा विगुणा हृदयं गताः। कुचन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते ॥ चतुविधः स दोषश्च पञ्चमः क्रिमिभिस्तथा । पृथग लिङ्गं प्रवक्ष्यामि चिकित्सितमनन्तरम् ॥ आयम्यते मारुतजे हृदयं तुद्यते तथा। निम्मेथ्यते दीय्यते च स्फोट्यते पाट्यतेऽपि च (१)॥ तृष्णोषाचोषदाहाः स्युः पैत्तिके हृदयलमः। धूमायनश्च मूर्छा च स्वेदः शोषो मुखस्य च ( २ ) ॥ गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमाईवम् । माधुय्यमपि चास्यस्य बलासावतते हृदि (३ ) ॥ उत्क्लेशः ष्ठीवनं तोदः शूलो हल्लासकस्तमः । अरुचिः श्यावनेत्रवं शोषश्च क्रिमिजं भवेत् ( ४ ) ॥ भ्रमलमौ सादशोषो ज्ञयास्तेषामुपद्रवाः । क्रिमिजे क्रिमिजातीनां श्लैष्मिकाणाञ्च ये मताः” (५)॥ इति। अत्र त्रिदोषजहृद्रोगस्यानुक्तर्वातादित्रिविधहद्रोगहेतुलक्षणोऽभिप्रेतः। इति पञ्चविधहद्रोगस्य विस्तराभिधानं पुनश्च चिकित्सिते करिष्यते ॥१६॥ गङ्गाधरः-अथ "व्याधीनां द्वाधिका पष्टिदोषमानविकल्पजा" इत्येतद्विस्तरेणाभिधीयते-हल्वणेत्यादि। यथा वृद्धरित्यादिवक्ष्यमाणवचनात दृद्धानां वातपित्तकफानां संसर्गतः सन्निपाता विकारास्त्रयोदश भवन्ति । तत्र वालवणैस्त्रयो विकारा एकोल्वणैर बैदोस्त्रयः सन्निपाता इति ते पट सन्निपाताः स्युः । तद्यथा-वातपित्तोल्वणः सन्निपातो वातकफोल्वणः पित्तककोल्वणश्चेति त्रयो वृद्धद्विदोपोल्वणाः सन्निपाताः (३)। वृद्धकदोषोल्वणाश्च सन्निपातास्त्रयो वृद्धवातोल्वणो वृद्ध पित्तोलवणो वृद्धकफोल्वणः सन्निपात इति षट सन्निपाताः (६)। हीनमध्याधिकैश्च दृढेदोषैः षट् सन्निपाताः स्युः। तद्यथा-वृद्धवातद्धतरपित्तद्धतमकफ इत्येवं संसर्गेण चक्रपाणिः—“कति चाप्यनिलादीनाम्" इत्याद्यक्तस्योत्तरं-ह पल्वणेरित्यादि। हीनमध्याधिकेरिति वृद्धवृद्धतरवृद्धतमः । संसर्गे नवेति च्छेदः, अस्गव विवरणं "पट तेभ्यः" इत्यादि ; For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy