________________
Shri Mahavir Jain Aradhana Kendra
१७श अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । शोकोपवासव्यायाम - रुक्षशुष्काल्प भोजनैः । वायुराविश्य हृदयं जनयत्युत्तमां रुजम् ॥ वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता भ्रमः * । हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना ॥ १३ ॥ उष्णाम्ललवणचार-कटुकाजीर्णभोजनैः । मद्यको धातश्चाशु हृदि पित्तं प्रकुप्यति ॥ हृद्दाह तिक्तता वक्तुं पित्ताम्लोद्विरणं क्लमः । तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम् ॥ १४ ॥ अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम् । निद्रासुखञ्चाप्यधिकं कफहृद्रोगकारणम् ॥ हृदयं कफहृद्रोगे सुप्त स्तिमितभारिकम् । तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा ॥ १५ ॥
For Private and Personal Use Only
६६३
गङ्गाधरः - अथ पञ्चैव हृदयामया इति यदुद्दिष्टं तस्य विस्तरं प्रवक्तिशोकेत्यादि । शोकेत्यादिनार्द्ध श्लोकेन वातहृद्रोगनिदानम् । वायुरित्यादिना सम्माप्तिः । आविश्य हृदयं हृदयं गत्वा रसं दूषयित्वा । वेपथुरित्यादिना वेश्लोकेन वातहृद्रोगलिङ्गम् । वेष्टनमुद्वेष्टनवत् वक्षोदवदविका । (१) ॥ १३ ॥
गङ्गाधरः- उष्णाम्लेत्यादि । उष्णाम्लेत्यादिना पित्तहृद्रोगस्य निदानम् । प्रकुप्यतीत्यनन्तरं तत आविश्य हृदयं जनयत्युत्तमां रुजामित्यनुवत्ये व्याख्येयम् । हृद्दाहेत्यादिना पित्तहृद्रोगलिङ्गम् । (२) ॥ १४ ॥
गङ्गाधरः - अत्यादानमित्यादि । अत्यादानमित्यादिना कफहृद्रोगनिदानम् । अत्यादानमतिमात्रया भोजनम् । अचिन्तनमल्पचिन्तनं वा । कफहृद्रोगकारणमित्यतोऽनन्तरं कफ आविश्य हृदयं जनयत्युत्तमां रुजमित्यनुवत्त्ये व्याख्यातव्यम् । हृदयमित्यादिना कफहृद्रोगलिङ्गम् । स्तिमितभारिकमिति
चक्रपाणिः शोकोपवासेत्यादि हृद्रोगलक्षणं, वेष्टनमुद्द ेष्टनमिव, दरो दरदरिका, अचिन्तनं * भ्रम इत्यत्र दर इति चक्रः ।