________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
६६२
चरक-संहिता। (कियन्तःशिरसीयः तिलक्षीरगुड़ाजीर्ण-पूतिसङ्कीर्णभोजनात् । क्लदोऽस्मृक्कफमांसानां दोषलस्योपजायते ॥ ततः शिरसि संक्लेदात् क्रिमयः पापकर्मणः । जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम् ॥ छेदव्यधनरुकण्डू-शोफदौर्गन्ध्यदुःखितम। क्रिमिरोगातुरं विद्यात् क्रिमीणां लक्षणेन च * ॥ १२ ॥
शिरोरोगे. क्षतजस्य वातिकपत्तिकशिरोरोगेऽन्तर्भावः कृतः। विदेहे हुक्तम्-- "शून्यं भ्रमति तुदेवत शिरो विभ्रान्तनेत्रता। मूर्छा चाङ्गावसादश्च शिरो. रोगे क्षयात्मके॥” इति । चक्षुष्येणाप्युक्तम् -- "स्त्रीप्रसङ्गादभीघातादथ वा देहकर्षणात। क्षिण संजायते कृच्छः शिरोरोगः क्षयात्मकः।। वातपित्तात्मक लिङ्गं व्यामिश्र तत्र लक्षयेत् ।” इति। पृथगवातजपित्तजशिरोरोगलिई व्यामिश्र तत्र लक्षयेदिति न पृथगुक्तः । क्षयात्मकः शिरोरोग इति न न्यूनखमिति सर्वत्र दोपनिद्देशे बोध्यम् ।। ११ ।। __ गङ्गाधरः--अथ क्रिमिजशिरोरोगमाह-तिलेत्यादि । संकीर्णभोजनादितिबहुद्रव्याणि मेलयिवेकविधखेन निष्पन्नस्य भोजनात् । दोपलस्य बहुसञ्चितदोषवतः पुंसः। कफरक्तमांसानि क्लियन्ति । पापकर्मणोऽधर्मावतस्तस्य । ततस्तस्माद्रक्तकफमांससंक्लेदाच्छिरसि जाताः क्रिगयः वीभत्सलक्षणं घ्राणादिरन्ध्रेण पूयादिप्रवृत्तिलक्षणं शिरोरोगं जनयन्ति। पापकर्मण इत्यनेन शिरसि क्रिमिरोगोऽतिदुःखदो भवत्यधर्मत एवेति सूचितम् । रूपमाह-छेदश्छदनवत् पीड़ा शिरसि भवति। व्यधनं विद्धवत् पीड़ा। रुक् सामान्यतो वेदना । क्रिमीणां लक्षणेन क्रिमिरोगोक्तलक्षणेन। इति पञ्च शिरोरोगा विस्तरेण व्याख्याताः॥१२॥
चक्रपाणिः-सङ्कीर्णभोजनं विरुद्धाहारः, दोषलस्य बहुदोषस्य । पापकर्मण इत्यनेनाधर्मवत एवायमतिदःखक्रिमिरोगो भवतीति दर्शयति-बीभत्सलक्षणमिति । घ्राणादिभ्यः पूयादि. प्रवृत्तिः ॥ १२ ॥
* दर्शनेन च इति चक्रः ।
For Private and Personal Use Only