________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
चरक संहिता |
। कियन्तःशिरसीय
समीरणेन (१) ॥ यस्योष्णमङ्गारचितं यथैव भवेच्छिरो धूमवती च नासा । शीतेन रात्रौ च भवेद्विशेषः शिरोऽभितापः स तु पित्तकोपात् ( २ ) || शिरो गलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च । शुनाक्षिकूटं वदनश्च यस्य शिरोऽभितापः स कफप्रकोपात् ( ३ ) || शिरोऽभितापे त्रितयप्रवृत्ते सर्व्वाणि लिङ्गानि समुद्भवन्ति ( ४ ) ॥ रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ( ५ ) ॥ वसावलासक्षतसम्भवानां शिरोगतानामिह संक्षयेण । क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ॥ संस्वेदनच्छ धूमनस्यैरस्रग्विमोक्षैश्च विद्धिमेति ( ६ ) | निस्तुयते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुरतीव चान्तः । घ्राणाच्च गच्छेत् सलिलं सरक्तं शिरोऽभितापः क्रिमिभिः स घोरः ( ७ ) || यस्योदयं या प्रतिमन्दमन्दमक्षिध्रुवं रुक समुपैति गाढम् । विवर्द्धते चांशुमता सहैव सूर्यापत्तौ विनिवत्तते च ॥ शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च । तं भास्करावर्त्तमुदाहरन्ति सव्र्वात्मकं कष्टतमं विकारम् ( ८ ) | दोषास्तु दुष्टात्रय एव मन्यां संपीड्य घाटां सरुजां सुतीत्राम्। कुव्वैन्ति साक्षिभ्रवशङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु | गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांच रोगान् । अनन्तवातं तमुदाहरन्ति दोपत्रयोत्थं शिरसो विकारम् ( ९ ) || यस्योत्तमाङ्गार्द्धमतीव जन्तोः संभेदतोद भ्रमशूलयुक्तम् | पक्षादशाहादथ वाप्यकस्मात् तस्यार्द्धभेदं त्रितयाद्वावस्येत् ( १० ) ।। शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुमात्राः कफपित्तरक्तः । रुजः सुतीत्राः प्रतनोति मूद्धि) त्रिदोषश्चापि हि शङ्खयोस्तु || सुकष्टमेनं खलु शङ्खकाख्यं महपयो वेदविदः पुराणाः । व्याधि वदन्त्युद्धतमृत्युकल्पं भिपक्सहस्रं रपि दुर्निवारम् ( ११ ) इति ।
निमिस्तु राजा विदेह उवाच हिमशीतात्मको नित्यं सहितो क मारुतौ । कुर्व्वाते वेदनां तीत्रां दिनात् पूर्वाह्न एव च ।। आदित्यतेजसः युक्ते विनिवृत्ते तु भास्करे । स्रोतसां वितत्वाच्च ततः श्लेष्माविगच्छति ॥ उत्थितो मातरिश्वा च स्वमार्ग प्रतिपद्यते । तस्मान्मध्यन्दिनादूर्द्ध वेदनात्र प्रशाम्यति ।।" इति । सूयवित्तस्य यद्वातश्लैष्मिकत्वमुक्तं तद्वातमध्यकफोत्कट पत्ताल्प सन्निपातजवेन व्याख्यातम् । तदसाध । यतो विदेहेनैवोक्तं“ - सूर्य्यापवृत्त विपर्य्ययस्य । तत्र वातानुगं वित्तं चिरं शिरसि तिष्ठति । मध्याह तेजसाऽर्कस्य तद्वृद्धं शिरसो रुजाम् ॥ करोति पैत्तिकीं घोरां संशाम्यति
For Private and Personal Use Only