SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७श अध्यायः सूत्रस्थानम्। ६८६ दह्यते तुद्यते तेन शिरः शीतं सुष्यते।। दहे।ते चक्षुषी तृष्णा भ्रमः स्वेदश्च जायते ॥६॥ आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनैः। श्लेष्मा शिरसि संदुष्टः शिरोरोगाय कल्पते ॥ शिरो मन्दरुजं तेन सुप्तस्तिमितभारिकम् । भवत्युत्पद्यते तन्द्रीरालस्यमरुचिस्तथा ॥१०॥ वाताच्छलं भ्रमः कम्पः पित्ताद दाहो मदस्तृषा । कफाद गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे ॥ ११ ॥ दह्यते तुद्यते च शिरः। तेन दाहतोदेन शिरः शीतं सुष्यते कासति । सूपसगेण सूयतेरिच्छार्थः। चक्षुषी दहेाते। भ्रमो घूर्णनं चक्रस्थित. स्येव ॥९॥ गङ्गाधरः--कफजशिरःशूलमाह -आस्यासुखैरित्यादि। आस्यासुखादयः कफजशिरःशूलकारिकफस्य हेतवः । तल्लक्षणमाह---शिर इत्यादि । तेन शिरसि दुष्टकफेन मन्दरुज शिरो भवति। मुप्तञ्च भवति । स्तिमितञ्च भारिकश्च भारान्वितं शिरो भवति। उत्पद्यते तन्द्रीश्चारुचिश्वालस्यञ्चेति ॥१०॥ ___ गङ्गाधरः- त्रिदोपजशिरःशूललक्षणमाह-वातादित्यादि । वातजादिशिरोरोगाणां सवलक्षणव्यावृत्त्यर्थ लक्षणमिदमुक्तम् हेतुश्च नोक्तः सव्वहेतूनामनुमत स्वार्थमिति । ननु पित्तजशिरःशूले भ्रम उक्तः। कथमत्र वाताभ्रम उच्यते ? अथोच्यते-भ्रमस्तु रजःपित्तानिलाद्भवति। तत्र पित्तज इह वातज इति । मदो मत्तता। उक्तानां वातादिजानां पृथग्लक्षणेषु मदस्यानुक्तेः त्रिदोषजेऽस्मिन्न वभेदकानन्तवातसूर्यावर्तानामन्तर्भावः। उक्तं हि सुश्रुते शिरोरोगविज्ञानीयेऽध्याये -"शिरो रुजति मानां वातपित्तकफैस्त्रिभिः। सन्निपातेन रक्तन क्षयेण क्रिमिभिस्तथा ॥ मूर्यावर्तानन्तवाताविभेदकशङ्खकैः । एकादशप्रकारस्य लक्षणं संप्रवक्ष्यते ॥ यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम् । बन्धोपतापैश्च भवेद्विशेषः शिरोऽभितापः स चक्रपाणिः-शोतं सुपूयते शोतमिच्छन्ति। स्वप्नसुखमनुचितदिवास्वप्नेन ज्ञेयं, सुप्तमिव सुप्तप्रबोधरहितत्वेन, भाराकान्तमिव भारिकम् ॥९-११॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy