________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
चरक-संहिता। दीर्घजीवितीयः शीतं रूपञ्च शुक्ल संसर्गात् । गुरुखद्रवत्वस्निग्धस्वमन्दखसरखसान्द्रवमृदुखपैच्छिल्यगुणा अवयक्ताः। वक्ष्यन्ते हि गुरुद्रवस्निग्धशीतमन्दसरसान्द्रमृदुपिच्छिलरसगुणबहुलान्याप्यानि। भूमिश्चैकाऽवयक्तगन्धानभिवयक्तगुरुखखरवकठिनखमान्यस्थैय्यवैशद्यसान्द्रसगुणा निसर्गात् । पूर्वभूतानुप्रवेशात्तु रसवती च रूपवती च स्पर्शवती च शब्दवती च, तत्र रसादयश्चेषयक्तास्तत्र स्पर्शः खरश्चलनञ्चाधस्तात् स्थिरं रूपञ्च कृष्ण संसर्गात् । वक्ष्यन्ते हि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि। आत्मा पुनश्चेतनाधातुनिष्क्रियो निगुणः सच्चिदानन्दः आदिरनादिः स्वतन्त्रः सर्वगो वशी विभुः साक्षीति, स च सत्त्वकरणो गुणमुपाददानो जीवाख्यः सुखी च दुःखी च इच्छावांश्च द्वेषवांश्च स्मृतिमांश्च धृतिमांश्च बुद्धिमांश्च चेतनावांश्वाहङ्कारवांश्च प्रयत्नवांश्च भवति । मनस्तु रजस्तमोऽतिनिष्कृष्टसत्तगुणबहुलात्मकं परममूक्ष्मं च। तच्च लोके त्रिविधं, शुद्धं राजसं तामसञ्च ; तेषान्तु त्रयाणामपि सत्त्वानामेकैकस्य भेदाग्रमपरिसङ्ख्येयं तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानवाच्च शरीरं ह्यपि सत्त्वमनुविधीयते सत्त्वञ्च शरीरम् । तत्र कतिचित् सत्त्वभेदाः सादृश्यानि शेन । सप्तविधं शुद्धं ब्राह्मयादिभेदात् । षड्विधं राजसमासुरादिभेदात् । त्रिविध तामसं पाशवादिभेदादिति । वक्ष्यते महति गर्भावक्रान्त्यां शारीरे। कालोऽपि निष्क्रियो निर्गुणः परममहत्परिमाणोऽपि कार्यगुणग/दिगुणाभावात् स च लोके संवत्सरः शीतोष्णवर्षलक्षणः। एवं दिगपि खादिभ्योऽतिरिक्ता प्रकृतिभूता वैकारिकादहङ्कारादाकाशस्याधिदेवता दिक क्रियागणव्यपदेशाभावादसती न च नास्ति न चास्तीत्युच्यते लोकसर्गे खभिव्यज्यते प्राच्यादिरूपेण। न चायमाकाशोऽस्पर्शखात् । स्पर्श वत्खाभावेऽपि इति इद मिति यतः सा दिगिति लिङ्गात् । न च वायुरस्पर्श खात् वायुः पुनः स्पर्श वान् नीरूपः तत्स्वभावत्वात् नापि ज्योतिभवति अरूपखात् ज्योतिस्तु रूपवत् । नापि च जलं रसद्रवखाभावात । जलञ्च रसवद्रव्यश्च । नापि क्षितिरगन्धखात; क्षितिस्तु गन्धवती। नाप्यात्मा चैतन्याहेतुखात् आत्मा हि चैतन्ये हेतुः। न च मनोऽर्थाग्रहणात् मनो ह्यर्थ इदमेव चात्मनश्चतनत्व, यदिन्द्रियसंयोगे सति ज्ञानशालित्व', न निकृष्टस्यात्मनः चेतनत्वं, यदुक्तम् "आत्मनः करणैर्योगात् ज्ञानं तस्य प्रवर्तते" इति । अत्र सेन्द्रियत्वेन वृक्षादीनामपि चेतनत्व बोद्धव्यं, तथा हि सूय्यभक्ताया यथा यथा सूर्यो भ्रमति तथा तथा भ्रमणात् दृगनु
For Private and Personal Use Only