________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः
सूत्रस्थानम् । वाद्य न्द्रियरहितत्वञ्च, तद्वत्त्वादचेतनमपि द्विविध, वाह्याचेतनमन्तश्चेतनं वृक्षादि। वाद्याभ्यन्तराचे तन घटादि। इत्यञ्च जरायुजानां मनुष्यादीनामण्डजानां सादीनां स्वेदजानां मशकादीनामुद्भिजानां मण्डूकडुण्डुमादीनां चतुर्दा प्राणिनामुभयतश्चैतन्यम्, उद्भिज्जानां वानस्पत्यादीनामन्तश्चेतनखं वाह्याचेतनसञ्च। घटादीनां वाह्याभ्यन्तराचेतनवमिति बोध्यम् । एतेन देवादीनां ब्रह्मादीनां प्राणिनानारम्भकाणि नव द्रयाणि खादीनि, घटादीनामात्ममनोवर्जितानि सप्त खादीनि। तैः समवेतवेन विशिष्टापूर्वमूर्तिमत्त्वात् खादिगुणकातिरिक्तगुणकम्प्रवत्त्वाच्च खादिभ्यो विशेषश्चाविशेषश्च तदात्मकखान तद गुणकम्वत्त्वाच्च। तद्यथा--विविधयक्तशब्दश्च विविधवयक्तस्पर्शश्च । विविधव्यक्तरूपश्च विविधव्यक्तरसश्च विविधव्यक्तगन्धश्च घटादिर्भवति, पुमांश्च तथाविधो भवति, अपि च गुळदिगुणसमुदायश्च बुद्धिमांश्चच्छावांश्च सुखवांश्च दुःखवांश्च तथा बुद्धीच्छादिशब्दादिविशेषाणां विशेषेण बुद्धा चाबुद्धग्रा च चेष्टामु प्रयत्नवांश्च प्रभवति । तत्र खादिषु पुनः खमेकविधाव्यक्तशब्दमृदुखलघुवमूक्ष्मवश्लक्ष्णत्वगुण निसर्गात् । स्वयश्च वक्ष्यन्ते हि मृदुलघुमुक्ष्मश्लक्ष्णशब्दगुणबहुलान्याकाशात्मकानि द्रव्याणि। वायुरपि एकविधव्यक्तस्पशोऽनभिव्यक्तलघुखशैत्यरौक्ष्यखरखवैशयसोक्ष्म्यगुणः । स्पर्शस्तु साधारणरूपश्चलनस्वभावस्तु प्रतिघात इत्येते वायोगुणा निसर्गात् । पूर्वभूतानुप्रवेशात्तु कार्यरूपे द्वात्मके वायावश्यक्तशब्दलघुखरौक्ष्यखरखवैशयसौम्यगुणाः पूर्वतः किश्चित्स्थूला अथचावयक्ताः, स्पशस्तु व्यक्त एव शैत्यमभवत् । वक्ष्यन्ते हि लघुशीतरुक्षखरविशदसूक्ष्मस्पर्श गुणबहुलानि वायव्यानि । ज्योतिश्चापि एकविधव्यक्तरूपाव्यक्तोष्ण्यसोभ्यरौक्ष्यलाघववैशद्यगुण निसर्गात् । पूर्वपूर्वभूतानुप्रवेशात्तु प्रात्मके काय्ये तेजसि शब्दोष्णस्पर्शावीषाक्तौ चलन
चोर्द्ध ज्वलनं रूपञ्च लोहितम्, वक्ष्यन्ते हि उष्णतीक्ष्णमूक्ष्मलघुरूक्षविशदरूपगुणबहुलन्याने यानि । जलमपि च कविधवयक्तरसाव्यक्तगौरवद्रवखस्निग्धखशैत्यमान्धसरखसान्द्रवमृदुत्वपैच्छिल्यगुण निसर्गात् । पूर्वभूतानुप्रवेशात् तु शब्दशीतस्पर्शशुक्लरूपरसाव्यक्तास्तत्र चलनमधोगमनं स्पर्शश्च त्रिविधशिष्यबुद्धिहिततयाऽप्यूह्यमपि साक्षादेवीच्यते, वदन्ति हि न्यायविदो "व्याख्यानाद्वरं करणम्" इति। यद्यपि चात्मैव चेतनो न शरीरं, नापि मनः, यत उक्त “चैतनावान् यतश्चात्मा ततः कर्ता निरुच्यते” इति। तथापि सलिलौष्णवत् संयुक्तसमवायेन शरीराद्यपि चेतनम् ।
For Private and Personal Use Only