________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
चरक-संहिता। [ दीर्घजीवितीयः श्रोत्रादीनि वाह्यानि बुद्धिकम्मणोः करणानि दश तैयुक्त खादिनवद्रव्यारवयं यदिदं पुरुषसंज्ञ तदपि खादिद्रवयारब्धवाद द्रव्यं द्रव्यसंझ चेतनं वृक्षादिकमचेतनश्चान्तश्चैतन्येऽपि नरादिवद्वाह्याभ्यन्तरच तन्याभावात् नराधपेक्षयैवाचेतनं न तु घटादिवञ्चतन्याभावादचेतनं तथा तथाविरं निरिन्द्रियं यदिदमात्ममनोऽतिरिक्तं सप्तद्रवयारब्धं घटादिकं तदपि द्रवयं गुणकमश्रियखात् तु घटादीनां वृक्षादीनां नरादीनाञ्च द्रवयखानपायात् । ननु वृक्षायचेतनानां किमन्तश्च तन्यमस्ति, कुतश्च तदुपलभ्यते इति, उच्यते, दृश्यते हि प्रत्यक्ष सूर्यभ्रमणमनुभ्रमति सूर्यभक्ता। शृगालादिवसागन्धेनातिशय फलश्च फलति वीजपूरकम् । तथा जलदनादश्रवणाच फलति लवली। फलान्यता च चूतानां भवति मत्स्यवसाभिषेकेण। तच्च वमनेनानुमीयते। तथा भवति मुखमशोकस्य कामिनीचरणतलाभिहननेन तेन चास्य स्पर्शनमनुमीयते। तथा "अभिवादितस्तु यो विप्रो नाशिपं सम्प्रयच्छति। श्मशाने जायते वृक्षो गृधुककोपसेवितः” ॥ तथा “वृक्षगुल्मं बहुविधं तत्रैव तृणजातयः । तपसा धर्मरूपेण शब्दिता कर्म हेतुना ॥ अन्तःसंज्ञा भवन्त्येते सुखदुःखसमाश्रिताः । एतदन्ताश्च गतयो ब्रह्मान्तः समुदाहताः॥” इत्यादिवचनात् तस्मात् श्रवणस्पर्शननयनरसनघ्राणानीति पञ्चबुद्धीन्द्रियाणि द्विविधानि नित्यानि निरावरणसावरणानि । तत्राभ्यन्तराणि सावरणानि तेषां शरीरारम्भे भौतिकभावे वाह्याधिष्ठानश्रोत्रायभावात् । वाह्याधिष्ठानसंश्रये वाह्यानि च निरावरणानि न च तेभ्यः पृथगिन्द्रियाणि भवन्ति तस्माच्च तनमपि विविधमन्तश्च तनं वाह्याभ्यन्तरचेतनश्च । यद्यपि ज्ञखादात्मैव चेतनो न तु सत्त्व शरीरं वा इन्द्रियं वा, यदुक्त “चेतनावान् स्म तश्चात्मा ततः कर्ता निरुच्यते” इति। तथापि, “आत्मा ज्ञः करणैयौगाज्ज्ञानं तस्य प्रवत्तते। तदयोगादभावाद्वा करणानां निवत्तते ॥" इति । एवं निर्विकारः परस्वात्मेत्यादिवचनाच्छरीरेन्द्रिययोश्चैतन्यमुक्तम् । तत्र सत्यपि वृक्षादीनामन्तश्चैतन्ये वहिश्चैतन्याभावेनाचेतनखवयवहारः, वहिश्चैतन्य हि सुकृतदुरितसाधनवैधावैधकम्म साधनत्वेन प्रधानम्। तच्च वहिरिन्द्रियाण्यन्तरेण न सम्भवति । एवं निरिन्द्रियत्वमपि द्विविधमाभ्यन्तरेन्द्रियरहितवं निम्मक्षिकमितिवत् । अत्र सेन्द्रिय चेतनमित्येतावतैवार्थापत्तया निरिन्द्रियमचेतनमिति लब्धे पुनस्तद्वचनम् एवम्भूतार्थापत्तेरनैकान्तिकत्वात् बोद्धव्य, यथा नवज्वरे दिवास्वप्नादि निषिद्धम्, अर्थात् जीणे ज्वरे तर्हि आपद्यत, न चैवं, तत्र तेपां दिवास्वप्नादीनां निषिद्धत्वात् ; तस्मात्
For Private and Personal Use Only