________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ] सूत्रस्थानम् ।
५५ समपाश्चभौतिकवे मनसो ह्यभौतिकवस्तुग्रहणासामर्थ्यात् ब्रह्मज्ञानादिसाधिनी बुद्धिमुत्पादयितुन सामथा सम्भवति। भौतिकाभौतिकं निखिलं हि मनसो विषयः। यथा हि बुद्धया ब्रह्मज्ञानमुत्पद्यते सा च नोत्पद्यते भौतिकभावेन । भूतानि हि भूतमयानि च जगन्ति नियमतः सत्त्वरजस्तम इति गुणत्रयविवर्तितब्रह्ममयाणि केवलब्रह्मविरोधीनि भवन्ति, रागलक्षणेन हि रजसा प्रवत्तेकेन सङ्ग उत्पाद्यते सगस्तु खलु प्राप्त सत्यर्थे प्रीतिसम्पन्नता विशेषेण तत्रार्थे चासक्तिरिति नात्मकः। प्राप्ताभिलाषलक्षणा तृष्णा च रजसा जन्यते। ताभ्यां खलु सङ्गतृष्णाभ्यामेवादृष्टदृष्टार्थकर्मस्वावध्यते पुरुष इति। तमश्चावरणशक्तिरूपाशानलक्षण चिद गुणांशस्याप्रसादांशजं सर्वलोकमोहं जनयिखा तेन चालस्यनिद्राप्रमादैः पुरुषानावनाति । सत्त पुनर्निरुपद्रवं प्रकाशकलक्षणम् स्फटिकमणिवनिर्मलश्च शानमुत्पाद्य पुरुषाणां तेन च सङ्गमयति पुरुषान् । निरुपद्रवखेनान्तःशान्तखार तु सुखमुत्पाद्य च तेन पुरुषान् सङ्गमयतीत्यत्मात् रजस्तमोभ्यां विनिमुक्तले जाते सति च शुद्धसत्तात्मके मनसि निर्मलखेनान्तःशान्तखप्रकाशकखाभ्यां रजोजनितसङ्गतृष्णाजन्यकर्मबन्धनात् तमोजनितभ्रान्तिजन्यालस्यनिद्राप्रमादेभ्यश्च विनिम्मुक्तस्य ब्रह्मज्ञानमुत्पद्यते इति तद्रजस्तमोविनिम्मुक्ती हेतुः समाधिविशेषाभ्यासस्तेनोत्पद्यते परमार्थतस्तत्त्वज्ञानं खादिकमिदं सर्व द्रवयगुणकम्पोख्य यत् तद्विकारभूतं नामधेयं तस्य तस्य प्रकृतिरित्येव ज्ञानं सत्यं खादिसंशकं सर्व मिथ्येति। तत्त्वज्ञानात् खादितत्तद्विकारज्ञान वयवहारतत्तत्रानमेव मिथ्याशानमपैति, ततो रागद्वषमोहापायो भवति, तेषामपाये प्रवृत्तापायो भवति प्रवृत्तापाये निःशेषा नित्तिमुक्तिर्भवति। मुच्यते ह्य वम् । य एष सम्प्रसाद आत्माऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति, स न द्रवयं न गुणो न कम्मे न समवायो न च सामान्य विशेषश्चेति। ___ नन्वेवमेष नवको वै द्रव्यसंग्रहो नोपपद्यतेऽसमग्रवचनात् । सत्त्वात्मशरीरसमुदायस्य चेतनाचेतनस्याप्राणिनश्च घटादरतिरिक्तखादित्यतः प्रकृत्यास्मकवं विकाराणामिति ख्यापनायाह-सेन्द्रियमित्यादि। इन्द्रियाणि आत्मादीनाञ्च तथाऽव्यवहितस्य पूर्वनिर्देशः। द्रव्यसंग्रह इति करचरणहरीतकीत्रिवृताद्यसंख्येयभेदभिन्नस्य कार्य द्रव्यस्य कारणद्वारा संक्षेप इत्यर्थः।। सर्वकाम्यद्रव्याणामपि व्यवस्थामाह, सेन्द्रियमित्यादि ।-निरिन्द्रियमित्यत्र निशब्दोऽभावे
For Private and Personal Use Only