________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. ५६
१म अध्यायः
सूत्रस्थानम् । गृह्णाति । नापि कालश्चक्रवद भ्रमणस्वभावेन सर्वकलनाभावादिति । चतनाचेतनविशिष्टद्रव्याणां प्राणिनामप्राणिनां खादिभ्यश्च विशेषो गुणविशेषेण कम्मविशेषेण च विशेषात् । खादिभ्यो लोकानां चेतनानामचेतनानाञ्च विशेषो यथा-आकाश निष्क्रियमपि भूतान्तरयोगेण तक्रियोपचरितक्रियावत् । आकाशात्मकानि च द्रव्याणि माई वशोषिर्यलाघवकराणि । वायुः क्रियावान्, वायव्यानि च शैक्ष्यग्लानि-विचार-वैशबलाघवकराणि। ज्योतिश्च सक्रिय तदात्मकानि पुनद्रव्याणि दाहपाकप्रभाप्रकाशकराणि। आपस्तु सक्रियाः आप्यानि तु द्रव्याणातले दस्न हगन्धविष्यन्दमार्दवप्रह्लादकराणि। पृथिवी च क्रियावती पार्थिवानि द्रव्याणि पुनरुपचयसन्धानधातुव्यूहगौरवस्थैर्य कराणि भवन्त्याकाशीयादिगुणप्रभावैः। परन्तु “पृथिव्यम्बुगुणबाहुल्यान्मधुर” इति मुश्रुतवचना, पृथिव्यापश्च सौम्या इत्यभिप्रेत्य स्वयमुक्ताश्च सोमगुणातिरेकान् मधुरो रस इत्यस्मात् सौम्यमधुररसवद् द्रव्यं सर्च, सौम्यञ्च क वर्द्धयति सयोनित्वात् । मधु पुनर्नाशयति स्वप्रभावात् । तथा पृथिव्यग्निभूयिष्ठबादम्लस्तद्रसञ्च द्रव्यं सव्यं पित्तमाग्ने यं वर्द्धयति सयोनिखात ; दाडिमामलके खम्ले द्रव्ये नाशयतः स्वप्रभावात्। एवं तोयाग्निभूयिष्ठत्वाल्लवणो रसस्तद्रसवच्च द्रव्यन्तु सर्वमान यं पित्तं वर्द्ध यति सयोनिखात ; सैन्धवन्तु नाशयति प्रभावात । वाय्वग्निभूयिष्ठलान कटुको रसस्तद्रसञ्च द्रव्यं सर्वमाने यं पित्तं वर्द्धयति सयोनित्वात् ; पिप्पलीशुण्ठ्यौ नाशयतः स्वप्रभावात् । वाय्याकाशातिरेकात् तिक्तो रसस्तद्रसञ्च द्रव्यं सर्व वातं वर्द्धयति सयोनिखात् ; न तु वेत्राग्रपटोलपत्रे स्वप्रभावात् । पवनपृथिव्यतिरेकात् कषायस्तद्रसञ्च द्रव्यं सर्व वायवयवात् वातं वर्द्धयति पार्थिवखात् तु स्तम्भयति ; फलत्रयन्तु नाशयति त्रिदोषं विरेचयति मलं स्वप्रभावात्। एवं चित्रकतुल्या दन्ती स्वप्रभावात् विरेचयति । विषं विषं हन्ति मणिविशेषश्च विविधञ्च कर्म करोति स्वप्रभावात् । इति खादिभ्यो विशिष्टापरापूर्वमूर्तिगुणकर्मशालिखेन खाद्यारब्धमभिन्नमपि भिन्नमिति बोध्यम् । एवं मत्रोऽपि प्रतिनियततत्तद्वर्णानुपूबिकवेन प्रतिनियतशुभाशुभजनकप्रभाववान् स्वघटकवणेभ्यो विशिष्टापरापूर्वस्वरूपः मीयते, तथा लवली मेघस्तनितश्रवणात् फलवती स्यात्, वीजपूरकमपि शृगालादिवसागन्धनातीव फलवद् भवति, चूतानाञ्च मत्स्यवसासेकात् फलाढयतया रसनमनुमीयते, अशोकस्य च कामिनीपादतलाहतिसुखिनः स्तवकितस्य स्पर्शनानुमानम्। स्मृतिश्चानुमानं द्रढ़यति यथा
For Private and Personal Use Only