________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६८६
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
सन्धारणाद दिवास्वप्नाद रात्रौ जागरणान्मदात् । उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात् ॥ गन्धादसात्म्यादाघाताद रजोधूमा निलातपात् । गुर्व्वम्लहरितादानादतिशीताम्बुसेवनात् ॥ शिरोभितापाद दुष्टामाद रोदनाद वाष्पनिग्रहात् । मेघागमान्मनस्तापाद देशकालविपर्य्ययात् ॥ वातादयः प्रकुप्यन्ति शिरस्यस्त्रञ्च दुष्यति । ततः शिरसि जायन्ते रोगा विविधलचणाः ॥ प्राणाः प्राणभृतां यत्र श्रिताः सव्र्व्वन्द्रियाणि च । यदुत्तमाङ्गमङ्गानां शिरस्तदभिधीयते ॥ ५ ॥
[ कियन्तः शिरसीयः
For Private and Personal Use Only
गङ्गाधरः- अथ विस्तरेण शिरोरोगमाह-- सन्धारणादित्यादि । अविधार्याणां मूत्रादिवेगानां सन्धारणात् । मदान्मदकरद्रव्यातिसेवनेन मत्तभावात् । हरितमाद्रकमरिचधन्याकादि । गुर्व्वम्लहरितानामत्यादानात् । शीताम्बुनश्च अतिसेवनात् । शिरोऽभितापाच्छिरसोऽभिहननात् । दुष्टामात् दुष्टामाजीर्णात् । उष्णामादिति पाठे उष्णाच्चामाजीर्णाच्च । देशकालविपय्य यात् देशस्य पूव्वेस्थितेविपर्य्ययात् । तथा कालस्य ऋतोर्विपय्येयात् । तेन कालातियोगमिथ्यायोगयोः शिरोरोगहेतुत्वं व्यावृत्तमिति । तथातिमैधनादित्यनेन मैथुनायोगमिथ्यायोगयोर्व्यावृत्तिः कृता । गुर्व्वम्लहरितानाञ्चात्यादानाच्चानादानमिथ्यादानयोश्च व्यावृत्तिः । एभ्यो व्यस्तसमस्तेभ्यो हेतुभ्यो वातादयः पृथक् समस्ताश्च शिरसि प्रकुप्यन्ति । अस्रं रक्तञ्च एभ्यो हेतुभ्यो दुष्यति शिरस्येवेति । सव्वैस्मिन्नेव शिरोरोगे रक्तदोषश्च वर्त्तत एव । ततो वातादिभ्यः सह दुष्टरक्तभ्यः शिरसि विविधलक्षणा वक्ष्यमाणा अद्रविभेदकादय रोगा जायन्ते । ननु किमिदं शिरः कर्णेभ्रभ्य ऊ म् अथ मुखकर्णाक्षिश्रोत्र सहितं सर्व्वम् ? यदि सर्व्वं तदा मुखादिरोगाथ शिरोरोगा भवन्तीति; अत आह--प्राणा इत्यादि ।
चक्रपाणिः - सन्धारणादिति वेगसन्धारणात्, हरितमाईकादि, अतीति पूर्वेण परेण च शीताम्बुसेवनादित्यनेन सम्बध्यते; दुष्टामात् किंवा उष्णाऽमादिति पाठः, तत्रोष्णाच्चामाच्च इत्यर्थः । देशकालविपर्ययादित्यत्र देशविपर्य्यय उपसर्गगृहीतत्वं देशस्य ; अरुञ्च प्रदुष्यतीत्य