________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः
सूत्रस्थानम्। अर्द्धावभेदको वा स्यात् सव्वं वा रुज्यते शिरः। प्रतिश्यामुखनासाक्षि-कर्णरोगशिरोत्रमाः ॥ अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः । विविधाश्चापरे रोगा वातादिकृमिसम्भवाः ॥ ६॥ पृथगदृष्टास्तु ये पञ्च संग्रहे परमर्षिभिः।। शिरोगदास्ताञ्णु मे यथास्वहेतुलक्षणः ॥७॥ उच्चैर्भाष्यातिभाष्येभ्यस्तीक्ष्णाघ्राणात् * प्रजागरात् । शीतमारुतसंस्पर्शाद व्यायामाद + वेगनिग्रहात् ॥ उपवासादभीघाताद विरेकवमनादति।
वाष्पशोकभयत्रासाद भारमार्गातिकर्षणात् ॥ यत्र प्राणाः श्रिताः प्रतिष्ठिताः। हृदयादिषु स्वस्वस्थानेषु स्थितिः प्राणानां यदायत्ता। सव्वन्द्रियाणि पञ्च बुद्धीन्द्रियाणि यत्र श्रितानि स्वस्वाधिष्ठानवर्तीनि यत्र श्रितानि। यदङ्गानां मध्ये उत्तममङ्गं तदङ्गं शिर इत्यभिधीयते ॥५॥
गङ्गाधरः-तेन किं पञ्चेन्द्रियाधिष्ठानवर्जमुत्तमाझं शिर उच्यते ? इत्यत आह-अविभेदको वेत्यादि। वाशब्देन अनन्तवातादीनामनुक्तानां ग्रहणम् । क्रिमिसम्भवा इत्यन्तैये रोगास्ते सव्वें शिरोरोगाः। तेभ्यः पृथग् ये पञ्च शिरोगदाः परमर्षिभिदृ ष्टास्तान स्वैहेतुलक्षणेमें शृणु ॥५-७॥
गङ्गाधरः-उच्चैर्भाष्येत्यादि । तीक्ष्णानामाघ्राणात् वक्ष्यमाणेन वमनादतीत्यतिशब्देन सह तीक्ष्णाघ्राणादीनामन्वयः। एभ्य उच्चै प्यादिभ्यो हेतुभ्यो भिदधानः सर्वशिरोरोगे रक्तदुष्टि दर्शयति । प्राणा इत्यादिनाङ्गेषु शिरःप्राधान्यं दर्शयन् प्रकृतशिरोरोगाणामेवात्यहितत्वं दर्शयति ; तेन नोत्सूत्र शिरःप्राधान्याभिधानं ; श्रिता इव श्रिताः शिर-उपधाते उपघातात् ; उपरिटादङ्गमुत्तमाङ्गम् ॥ ५॥
चक्रपाणि:-प्रकृतान् शिरोरोगानाह --अद्वैत्यादिना क्रिमिसम्भवा इत्यन्तेन। एतच्च "जायन्ते रोगा विविधलक्षणाः” इत्यस्य विवरणम् ॥ ६ ॥
चक्रपाणिः-शिरोगतत्वेन नासादिरोगेषु प्राप्तेष्वपि तान् विहायैवाष्टोदरीये प्रोक्तांस्तानेव शिरःशूललक्षणान् रोगान् प्रपन्चेन वक्त माह-पृथगित्यादि। संग्रहेऽष्टोदरीये, तेन * तीक्ष्णपानादिति चक्रः।
+ व्यवयादिति चक्रः।
For Private and Personal Use Only