________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः] सूत्रस्थानम् ।
६८५ दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः। व्याधीनां द्वाधिका षष्टिदोषमानविकल्पजा ॥ दशाष्टौ च क्षयाः सप्त पिड़का माधुमेहिकाः । दोषाणां त्रिविधा चोक्ता गतिर्वक्ष्यामि विस्तरम् ॥४॥ गङ्गाधरः- तत्र प्रथमप्रश्नः कियन्तः शिरसि प्रोक्ता रोगा इति तस्योत्तरमाहदृष्टाः पञ्च शिरोरोगा इति। हृदि च देहिनां कियन्तो रोगाः प्रोक्ताः इति प्रश्नस्योत्तरं पञ्चैव हृदयामया इनि । कति वाप्यनिलादीनां रोगा मानविकल्पजा इति प्रश्नस्योत्तरम् --व्याधीनां प्रधिका पष्टिदोषमानविकल्पजा इति। सर्वेषामेव व्याधीनां ज्वररक्तपित्तादीनां दोपमानविकल्पना द्वाधिका पष्टिषष्टि दाः । तत्रापि ज्वरादीनां दृद्रदोषजानां स्वस्खाधिकारे निर्दिष्टसंख्यासु कल्पनीयाः। तेन पञ्चविधशिरोरोगा अपि पञ्चविंशतिविधाः कल्पनीयाः। एवं हृदामयादयः सवें बोध्याः। क्षयाः कति समाख्याताः ? इत्यस्योत्तरं-दशाष्टौ च क्षया इति। अष्टादश क्षयाः। एते च पञ्चविंशतिधा कल्पनीयाः। पिडकाः कतिधानघ इत्यस्योत्तरं - - सप्त पिडका माधुमेहिका इति प्राधान्यात् अन्याथासङ्घाकलेन कतिचिच वक्ष्यन्ते । गतिः कतिविधा चोक्ता इत्यस्योत्तरमाहदोषाणां त्रिविधा चोक्ता गतिः । तांश्च सनि विस्तरं प्रकारभेदेन निदानादिवचनेन च वक्ष्यामीति ॥ ४ ॥ माधुमेहिका इत्यस मधुमेहशब्दः सामान्येन प्रमेहवचनः, यतोऽत्रैव सामान्येन ब्रुनते-"विना प्रमेहमप्येता जायन्ते दुश्मेदसः” इति ; अन्यथा हि "विना मधुमेहम्' इति कृतं स्यात्, तथा चिकित्सिते वक्ष्यति सामान्येनैव, यत् "प्रमेहिणो याः पिड़का यथोक्ताः, रोगाधिकारे पृथगेव सप्त' इत्यादि, तथा मधुमेहपिड़कानां चिकित्सितोपदेशाच सर्वमेहभवत्वं पिड़कानां, मधुमेहभवत्वेन हि मधुमेहस्यैवाऽसाध्यत्वात् न तद्भवपिड़कानामुपक्रमणीयत्वमस्ति, किञ्ज, प्रदेशान्तरेऽपि मधुमेहशब्देनायं सर्वप्रमेहानुक्तवान्, यथा--'गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः। अचिकित्स्या भवन्त्येते बलमांसपरिक्षये ॥” इति। अत्रापि यदि वातिको मधुमेहः अभिप्रतः स्यात्, तदा तस्य स्वरूपत एवासाध्यत्वेन 'बलमांसपरिक्षये सति' इति विशेषणमनर्थक स्यात् ; सुश्रुतेनापि च सामान्येन प्रमेह एवैताः पिड़का दर्शिताः, यदुल..-"तद्वच्च वसामेदोभ्यामभिपन्नस्य शरीरस्य दोषैश्चानुगत धातोः प्रमेहिणः पिड़का जायन्ते" इत्यादि ; सर्व एव प्रमेहा यस्माद् देहं मधुरोकृत्य जायन्ते तस्मान्मधुमेहा इत्युच्यन्ते, वचनं हि-“पट्पदपिपीलिकाभिसरणम्" इति, तथा च वाभटः, "मधुरं यच्च सर्वेषु प्रायो मध्धिव मेहति । सर्वे हि मधुमेहाख्या माधुर्याच्च तनोरतः ॥' विस्तरत इति शृष्वित्यनेन सम्बध्यते ॥ २-४॥
For Private and Personal Use Only