SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तदशोऽध्यायः । अथातः कियन्तः शिरसीयमध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्रे यः ॥ १ ॥ कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम् । कति वाप्यनिलादीनां रोगा मानविकल्पजाः ॥ क्षयाः कति समाख्याताः पिडकाः कतिधानघ । गतिः कतिविधा प्रोक्ता दोषाणां दोषसूदन ॥ २॥ हुताशवेशस्य वचस्तच्छ्रुत्वा गुरुरब्रवीत् । पृष्टवानसि यत् सौम्य तन्मे शृणु सविस्तरात् ॥ ३॥ गङ्गाधरः- अथ भेषजस्वस्थनिर्देशकल्पनाचतुष्कचतुष्टयैः संक्षेपेण रोगनिदानभेषजचिकित्सा अभिहिताः । अधुना विस्तारवचनेन सूत्ररूपेण रोगानभिधातु रोगचतुष्के वक्तव्ये तत्राप्यङ्गानां मर्म्मणां सप्तोत्तरशते शिरोहृदययोः प्राधान्यात् तद्गतरोगानभिधातु प्रथमं कियन्तः शिरसीयमध्यायमारभते । अथात इत्यादि । " कियन्तः शिरसि प्रोक्ता रोगा" इति वाक्यस्याध्यायादिस्थस्यैकदेशं कियन्तः शिरसीतिपदमधिकृत्य कृतोऽध्यायः कियन्तः शिरसीयः तं तथा । सर्व्वमन्यत् पूर्ववयाख्येयम् ॥ १ ॥ गङ्गाधरः - कियन्त इत्यादि - प्रोक्ताः प्रवचनेनोपदिष्टा इति । तेन संख्यया वातादिजलादिना च ज्ञातुमेते प्रश्ना अग्निवेशेन कृताः ॥ २ ॥ गङ्गाधरः- हुताशेत्यादि । - गुरुरात्रेयः पुनव्र्व्वसुहुताशवेशस्य तद्वचः श्रुत्वा ऽब्रवीत् । हे सोम्याग्निवेश ! खं यत् पृष्टवानसि तन्मे सविस्तराच्छृणु ॥ ३ ॥ चक्रपाणिः पूर्व्वचतुष्कचतुष्टयेन भेषजमभिहितम्, सम्प्रति तद्विषयरोगाभिधानार्थं रोगचतुष्कोऽभिधातव्यः ; चिकित्सा च विधेयत्वेनैव प्रधानमतः प्रथममुक्ता, किञ्च दर्शितश्चायं प्रथमाध्याय एव सम्बन्धः एवञ्चाङ्गेषु मर्म्मसु च प्रधानभूतशिरोहदयरोगाभिधायकत्वेन कियन्तः शिरसीयोऽभिधीयते ॥ १ ॥ 3. चक्रपाणिः - क्षयस्थानवृद्धयो दोषमानं, तस्य विकल्पो दोषान्तरसम्बन्धासम्बन्धकृतो भेदः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy