________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः]
सूत्रस्थानम् ।
६८३ तत्र श्लोकाः। चिकित्साप्राभृतगुणो दोषो यश्चेतराश्रयः । योगायोगातियोगानां लक्षणं सिद्धिसंश्रयम् ॥ बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये। चिकित्सासूत्रमात्रश्च सिद्धिव्यापत्तिसंश्रयम् ॥ या च युक्तिश्चिकित्साया यञ्चार्थं कुरुते भिषक् । चिकित्साप्राभृताध्याये तत् सर्वमवदन्मुनिः ॥ २२ ॥
इति कल्पनाचतुष्कः। इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने
चिकित्साप्राभृतीयो नाम षोडशोऽध्यायः ॥१६॥ वैद्यो नृलोकस्य नरस्य जनस्य देहसुखायुषां दानात् धर्मस्याथस्य कामस्य दाता सम्पद्यते । तस्मादुभयस्य च सुखायुषाश्च धर्मादित्रिवर्गस्य च दाता सम्पद्यते। न केवलं सुखायुपाम् । धर्मादयो हि सुखायुपामायत्ताः । इति ॥२१॥ ____ अध्यायार्थमाह-तत्र श्लोका इत्यादि । चिकित्साप्राभृतो विद्वानित्यादिना चिकित्साप्राभृतस्य वैद्यस्य गुणः। इतराश्रयो वैद्यमान्यबुधवैद्याश्रयो दोषश्च यं वैद्यमानीत्यादिनोक्तः। दोब्बल्यमित्यादिना सम्यग्योगादिलक्षणमुक्तम् । अविपाक-इत्यादिना बहुदोषस्य लक्षणमुक्तम् । एवं विशुद्धकोष्ठस्येत्यादिना संशोधनगुणा उक्ताः। अतियोगानुबन्धानामित्यादिना शुद्धिव्यापत्तिसंश्रयं चिकित्सासूत्रमात्रमुक्तम् । जायन्ते इत्यादिना या च युक्तिरित्यादुक्तम् ॥२२॥ ___ अध्यायं समापयति–अग्नीत्यादि। पूर्ववद्याख्येयम्। इति कल्पनाचतुष्कः। स्नेहस्वेदोपकल्पनीयचिकित्सामाभृतीयैश्चतुभिः कल्पनाध्यायैनिष्पन्नः कल्पनाचतुष्कः।
इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ सूत्रस्थानीय. षोड़शाध्यायचिकित्साप्राभृतीयस्य जल्पाख्या पोड़शी शाखा ॥१६॥
चक्रपाणिः-संग्रहे सिद्धिसंश्रयञ्च व्यापत्तिसंश्रयञ्च सिद्रिव्यापत्तिसंश्रयम् ; तत्र सिद्धिसंश्रयं सिद्धिसंस्थानसंश्रयेण, व्यापत्तिसंश्रयम् “अतियोगानुबद्वानाम्" इत्यादनोक्तम् ॥२२॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां चिकित्साप्राभृतीयो नाम षोडशोऽध्यायः ॥ १६ ॥
For Private and Personal Use Only