________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८२
चरक-संहिता। चिकित्साप्राभृतीयः कथं शरीरे धातूनां वैषम्यं न भवेदिति। समानाञ्चानुबन्धः स्यादित्यर्थं क्रियते क्रिया ॥ १६ ॥ त्यागाद्विषमहेतूनां समानाञ्चोपसेवनात् । विषमा नानबध्नन्ति जायन्ते धातवः समाः॥ समैस्तु हेतुभिर्यस्माद धातून संजनयेत् समान् । चिकित्साप्राभृतस्तस्माद दाता देहसुखायुषाम् ॥ २०॥ धम्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च ।
दाता सम्पद्यते वैद्यो दानाद देहसुखायुषाम् ॥ २१ ॥ वैषम्येणारब्धोत्तरावस्थाप्रवन्धानां विकाराणां सा चिकित्सेत्युक्तः। का वा चिकित्सेत्यस्याप्युत्तरं सा चिकित्सेति वचनम् । किमर्थं वा प्रयुज्यते इति प्रश्नस्योत्तरमाह-कथमित्यादि । विपमधातूत्तरप्रवन्धो वैपम्यं कथमपि धातूनां शरीरे न भवेदित्यर्थं समीकृतेषु च धातुपूत्तरप्रबन्धः समानामेव स्यान्न तु विषमाणामिति चार्थ चिकित्साक्रिया क्रियते ॥१८॥१९॥
गङ्गाधरः- ननु याभिः क्रियाभिरिति काभिरिति ? अन आह .. त्यागादित्यादि। विपमहेतूनां कालबुद्धीन्द्रियार्थानामतियोगायोगमिथ्यायोगयुक्तानां त्यागात् । समानां समयोगयुक्तानां नेपामेव कालबुद्धीन्द्रियार्थानामुपसेवनात् विषमा धातवो न जायन्त न चानुवन्नन्ति समाश्च जायन्त। अथैवमाचरणं सर्व एव किं स्वयं स्वयं कतु महंतीति ? अत आह-समरित्यादि । यस्माचिकित्साप्राभृतो वैद्यः समः समयोगयुक्तस्तु हेतुभिर्शन समान संजनयेत्, तस्मादेहसुखानामायुषाञ्च दाता भवति न खबुधो वैद्यमानी ।। २०॥
गङ्गाधरः---देहसुखायुषां दानादयच्च फलं लभते तदाह----एम्मस्येत्यादि । चक्रपाणिः----एवं व्यवस्थिते, ''कथं शरीर' इत्यादि ग्रन्थो व्याख्येयः ; वैपम्यं न भवेत् नोत्पदेवतेत्यर्थः । समानाञ्चानुबन्ध इति सन्तायोत्पादः । विपमा नानुबध्नन्ति इति हेत्वभावात् विषमसन्तानस्योत्पादो न भवति । समानाञ्योपसेवनादिति समहेतूनां सेवनात् ॥ १९॥२०॥
चक्रपाणिः-देहसुखायुपां दानात् धर्मादीनां दाता भवति, देहसम्पत्तिसाध्यत्वाद् धर्मादीनामपीति भावः ॥२१॥
इति कल्पनाचतुष्कः।
For Private and Personal Use Only