________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः सूत्रस्थानम् ।
६८१ याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः।
सा चिकित्सा विकाराणां कर्म तद्भिषजां मतम् ॥ १८ ॥ पुराणमिदमिनि। वल्मीकादीनामवयवोपचयकारणमाहाररसवद्वल्मीककीटोद्धतमृदप्यस्ति । तद्वद्वल्मीकोपचयेऽपि तदुद्धतमृदा मेलनेन पूर्ववल्मीकमृद्धिं प्राप्योत्तरावस्थामारभ्य पूर्वावस्थिकरूपेण नश्यतीति। तत्र कारणं नास्तुपलब्धाभावात् । घटादीनां विनाशकारणमवयविभागो न परावस्थारम्भकपूर्वावस्थाव्यहनाशे कारणमिति। एवञ्च प्राण्यप्राणिनां सव्वेषामुत्तरावस्थारम्भ-पूर्वावस्थानिष्कारण-विनाशयोः नियमहेखभावादयथादर्शनमभ्यनुशावचनं नाद्रियते। शरीरवत् सर्वासु व्यक्तिषु कालकृतावस्थान्तरदर्शनात् । प्राण्यप्राणिषु सव्यत्रैव प्रतिक्षणमवस्थान्तरदर्शनादेव च प्रतिक्षणमुत्तरोत्तरव्यूहारम्भाकारणपूर्वपूर्वव्यहनाशप्रवन्धः । कचिद्विनाशकारणानुपलब्धः कचिदुपलब्धेश्च नानकान्तः। इति ॥१७॥
गङ्गाधरः---इत्येवं भावानां स्वभावोपरमे प्रतिहेतु निरोध कारणाभावस्य युक्तिमुक्त्वा स्वभावोपरमे कम्म चिकित्साप्रामृतस्य किमिति ? प्रश्नोत्तरमाहयाभिरित्यादि। विषमधातूनां प्रतिक्षणं विषमा धातव उत्तरावस्थां विषमधातुकामारभ्य नश्यन्ति । इत्येवं विषमधातुप्रवन्धे शरीरे याभिः क्रियाभिस्ते विषमा धातवः समा जायन्ते सा क्रिया विकाराणां विषमधातूनां चिकित्सा। तदेव चिकित्साक्रिया भिपजां कर्म मतम् । एतेन भंपजैविषमान् धातून् कान् समीकुरुते भिषगित्यस्याप्युत्तरमुक्तं भवति । विकाराणामिति वचनेन प्रतिक्षणं
चक्रपाणिः--एतेन विषमे धातो साम्यं संस्कार आधीयतामित्येवरूपापि चिकित्सा निरस्ता मन्तम्या, एवं व्यवस्थिते पूर्वाक्षिप्त चिकित्सितं समादधति याभिरित्यादि।-“सा चिकित्सा" इत्यनेन "का वा चिकित्सा" इत्याक्षेपः परिहतः । “कर्म तद्" इत्यनेन प्रथमोहिर आक्षेपः परिहृतः। “इत्यर्थं क्रियते क्रिया इत्यनेन "किमर्थं वा" इत्याक्षेपः परिहृतः। “कान् समीकुरुते" इत्याक्षेपस्तु, “समैस्तु हेतुभिर्यस्माद " इत्यादिना परिहतः । विषमेषु धातुषु याभिः क्रियाभिः समा धातवो जन्यन्ते सा चिकित्सा ; एवं मन्यते यद्यपि धातुवैषम्यं विनश्वरम्, तथापि विनश्यदपि तद्धातुवैषम्यं स्वकारय विषममेव धातुमारभते, एवं सोऽप्यपरं विषममिति न धातुवैषम्यसन्ताननिवृत्तिर्धातुसाम्यजनकत्वहेतुं विना ; यदा तु धातुसाम्यहेतुरुपयुक्तो भवति, तदा तेन सहितं वैषम्यसन्ततिरहितमपि कारणं सममेव धातुसन्तानमारभते, यथा मुद्गरप्रहारसहितो घटपरमाणुसन्तानो विसदृशं कपालसन्तानमारभते ॥१८॥
For Private and Personal Use Only