________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८०
चरक संहिता |
चिकित्साप्राभृतीय:
रक्तादिधातु पुष्टिं प्रत्यग्रस्वभावां प्रतिक्षणं प्राप्तो यौवनपर्यन्तं प्रतिक्षणमुत्तरावस्थारम्भपूर्वावस्थानाशाभ्यामवस्थान्तरमुपेत्य वृद्धिमुपैति । स्थैर्य्यस्वभावात् तु धातूनां मध्यावस्थायां तथाविधाहारादिरसपोषणे स्थिरभावेण वर्त्तते । प्रतिक्षणमुत्तरावस्थारम्भपूर्व्वावस्थानाशाभ्यामवस्थान्तरञ्चोपैति । तथा ततः परं हासस्वभावाद्धातूनां वार्द्धक्ये तथाविधाहारादिजनितरसपोपणेऽपि प्रतिक्षणमुत्तरावस्थारम्भपूर्वावस्थाविनाशाभ्यां क्रमेणावस्थान्तरमुपेत्य हासमुपैतीति । शैशवादिक्रमेण परिणामे कारणं शरीरारम्भकः कालः । इत्येवं पूर्व्वपूर्व्वव्यूह उत्तरोत्तरव्यूहमारभ्य नश्यति मनुष्यभावञ्च न जहाति । गवादिभावश्च न प्राप्नोति । तस्मात् क्षणभङ्गे व्यूहान्तराद्रव्यान्तरोत्पत्तिः, न तज्जातीयभिन्नद्रव्यान्तरोत्पत्तिः । पूर्व्वद्रव्यनिवृत्तिरपि पूर्व्वव्यहनिवृत्तिने तज्जात्यारम्भकपूर्वद्रव्यनिवृत्तिः । उत्तरमपि तज्जातिदर्शनात् । यथा गर्भाशयगतं जीवाधिठितं शुक्रार्त्तवं कललादिक्रमेण प्रतिक्षणमुत्तरावस्थारम्भपूर्वावस्थानाशाभ्यां सम्पूर्णाङ्गो वहिर्निःसृतो जायते मनुष्यादिः शिशुः तथा क्षीरविनाशकारणानुपलब्धिवद्दध्युत्पत्तिवच्च भावानां पूर्व्वपूर्व्वावस्थानाशकारणानुपब्धिरुत्तरोत्तरावस्थागमनमुत्पत्तिः प्रतिक्षणम् । क्षीरं हि कालेन परिणमत् खलूत्तरोतरावस्थामारभ्याकारणं विनश्यति। तत्कारणमुपलब्धप्रभावान्नास्त्येव । एवं प्रतिक्षणमुत्तरोत्तरावस्थारम्भपूर्वपूर्वावस्थानाशाभ्यां सर्व्वभावेण काले दधि जायते । ततो जातस्य शिशोः शैशवादिवार्द्धक्याबस्थान्तरावस्थान्तरगमनं जन्म यथा प्रतिक्षणमुत्तरोतरावस्थारम्भपूर्व्वपूर्व्वावस्थानाशाभ्यां भवति । तथा जातस्य दनोऽपि प्रतिक्षणमुत्तरोत्तरावस्थारम्भपूर्ण पूर्वावस्थानाशाभ्यां मधुराम्लात्यग्लादिखरूपेण तरुणमध्यपुराणत्वावस्थान्तरमापद्यते दधित्वञ्च न जहाति । तत्र पूव्र्व्वव्यूहस्य काय्र्यमुत्तरव्यूहो लिङ्गं न तु पूर्व्वव्यहनाशस्य कार्य्यमुत्तरव्यूहः । अतो न पूव्र्व्वव्यहनाशस्य लिङ्गं दधि । तस्मात् तन्नाशकारणं न ज्ञायत इत्यतो नास्ति । एवमजीवेंषु सव्र्व्वेषु स्फटिकादिषूपचयापचयकारणं कालादि । तत्तदारम्भकञ्च वाह्यश्च । यदा पव्वेते सजीवे स्फटिकादिकं जायते तदा तत्तत्पर्व्वतादुपचयापचये तस्य तस्याहारादिपोपणेन जातं प्रतिक्षणमेव तथैवोत्तरावस्थारम्भपूर्वावस्थानाशौ भवतः कालेन परिणामात् । पर्व्वतादानीते स्फटिके निज्जीवे त्वाहारवत्पोपणकारणाभावान्नोपचयः वाह्मकालादिभ्यस्त्वपचयो वा भवति । कालेनैव वाय्वग्निजलादिभिरवस्थान्तरप्राप्तं दृश्यमानञ्च लोके स्फटिकादिकमुच्यते । नूतनमिदं मध्यममिदं
For Private and Personal Use Only