________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः ।
सूत्रस्थानम् ।
६७६
1
अनुत्पादविनाशौ योऽत्र साधकस्तस्याभ्यनुज्ञानादप्रतिषेधः । कुम्भवन्न निष्कारणौ विनाशोत्पादौ स्फटिकादिव्यक्तीनामित्यभ्यनुज्ञेयोऽयं दृष्टान्तः प्रतिषेद्धमशक्यत्वात् । क्षीरदधिवत् तु निष्कारणौ विनाशोत्पादाविति शक्योऽयं दृष्टान्तः प्रतिषेद्ध' कारणतो विनाशोत्पत्तिदर्शनात् । क्षीरदनोविनाशोत्पत्ती पश्यता तत्कारणमनुमेयम् । कार्य्यलिङ्गं हि कारणमित्यक्ष पादगौतमः । अत्रोवाच भगवानात्रेयः पुनव्वसुः “जायन्ते हेतुवैषम्याद्विपमा देहधातवः । हेतुसाम्यात् समास्तेषां स्वभावोपरमः सदा ॥” इति । प्राणिनां देहधातवो वातपित्तकफरसरुधिरादयो हेतुवैषम्यात् कालबुद्धीन्द्रियार्थानामतियोगायोगमिथ्यायोगाद्विपमा जायन्ते इति । समानानां तेषां कालादीनामतियोगादितः समानां धातूनामुपचयोऽपचयोऽसमानां वैषम्येण नेपाञ्चैवासमान हेतूनाम् अतियोगादितोऽपचयोऽसमानधातूनां वैपम्येणोपचयः समानामिति । एवं हेतुसाम्याद्देहधातवः समा जायन्ते इति । तेषामेव कालादीनां हेतूनां समयोगात् समानां धातूनामुपचयः । विशेषाणामपचयो भवति साम्येनैव तत्र विषमाणामुपचयापचययोः समानाश्चोपचयापचययोस्तत्तद्विषयोपयुक्ताहाराचारादिभिजतिरसेन मलेन च मेलनाद देहरसादिमलादीनामुपचयापचयो यद्भवतस्तत्र पूर्वावस्थायां यथाभूतो देहधातुः समवाविमो वा तथाभावेनैवोत्तरावस्थायां तं तं धातुमारभ्याकारणं विपद्यते । उत्तरावस्थामवृत्तौ तु तत्तदाहाराचारादिरसमलसंयोगः कारणमिति । निरन्तरमाहारादिजनितरसमलानुवृत्तेनिरन्तरमेव तेषां धातूनां समानां विषमाणां वा स्वभावोपरमः स्यात् । तत्रान्ययाक्रियापूर्वावस्थायां यथाभूतः । ततोऽन्यथाक्रियोत्तरावस्थायां नैवास्ति शीघ्रगखाद्भावानाम् । सर्व्वे हि भावो लोके कालानु प्रविष्टः प्राणी । तत्र नवद्रव्यात्मकश्चेतनः । अप्राणी तु आत्ममनोवज्र्ज्ज सप्तद्रव्यात्मकः । तस्मादविरत भ्रमण स्वभावकालान्वयाच्छीघ्रगत्वस्वभावः । यथासावात्मा वीजधर्म्मा मानुपशुक्रार्त्तवसंयोगं मानुषगर्भाशयगतमुपेत्य प्रथमादिषु कललादिरूपावस्थान्तरं प्रतिक्षणं प्राप्तः सर्व्वसम्पूर्णाङ्गः कालेन मनुष्यविग्रहेण प्रसूतो जायते, गवादिशुक्रार्त्तवसंयोगं गवादिगर्भाशयगतमुपेत्य तथैव गवादिविग्रहेण जायते । जातश्च शिशुरूपेणाहारादिरसपोषणमवाप्य रस
तथा शीघ्र हेतुसाधितमसत्काय्र्यत्वमुपसंहरति-निरोध इत्यादि । अन्यथाक्रिया अन्यथाकरणं संस्काराधानमिति यावत् ।। १६।१७ ।।
For Private and Personal Use Only