________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
h
६७८
चरक संहिता |
चिकित्साप्राभृतीयः
क्षीरदनोः प्रकृतिविकृतिभावाद यथाभूतो भाव उत्तरावस्थायां तथा भावः पूर्वावस्थायां विपद्यत इति । अत्र दृष्टान्तत्वाभावात् क्षीरदनोः पूर्व्वानुरूपेण उत्तररूपोत्पत्तौ पूव्वभावो हि हेतुः न पूर्व्वभावविनाशः । ततो विक्रियमाणं क्षीरमेव दध्युत्पत्तौ हेतुः न क्षीरविनाश इति । अतः क्षीरविनाशलिङ्गं न दध्युत्पत्तिः । भवतु वा व्युत्पत्तिः क्षीरविनाशलिङ्गम् । तेन लिङ्गेन क्षीरविनाश एव गृह्यते न तु क्षीरविनाशकारणं गृह्यते । तस्माद्विनाशकारणानुपलब्धिरिति पुनब्र्व्वसुः । अथैवं चेत् तदा न सर्व्वभावाणां क्षणिकत्वम् । स्फटिकादिषु द्रव्येषूपचयापचयाभावादपरापरोत्पत्तौ व्यक्तीनां न लिङ्गमुपचयापचयमबन्धोऽस्ति । तस्माद यथादर्शनमभ्यनुज्ञा । इति वात्स्यायन - व्याख्यानम् । तत्र कश्चित् परिहारमाह न पयसः परिणामो गुणान्तरमादुर्भावात् ।" पयसः परिणामो दक्षि न विनाशः । इत्येक आहुः । परिणामश्च afrat aorts goवेधनिवृत्तो धम्र्मान्तरोत्पत्तिरिति । गुणान्तरप्रादुर्भाव इत्यपर आहुः । गुणान्तरप्रादुर्भावश्च सतो द्रव्यस्य पूर्व्वगुणनिवृत्तों गुणान्तरोत्पत्तिरिति । स खल्वेकपक्षीभाव इव ।
अत्र तु प्रतिषेधः व्यूहान्तराद द्रव्यान्तरोत्पत्तिदर्शनं पूर्व्वद्रव्यनिवृत्तेरनुमानात् ।" सन्मूर्च्छन लक्षणादवयवव्यूहान्तराद द्रव्यान्तरे दनुत्पन्ने गृह्यमाणे पूर्व पयोद्रव्यमवयवविभागेभ्यो निवृत्तमित्यनुमीयते । यथा मृदवयवानां व्यूहान्तराद व्यूहान्तरस्थाल्यामुत्पन्नायां पूव्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्त्तत इति । मृवावयवाऽन्वयः । पयोदोर्नाशेषनिरोधे निरन्वयो द्रव्यान्तरोत्पादो घटते इति ।
अथाभ्यनुज्ञाय च निष्कारणं क्षीरविनाशं दव्युत्पादश्च प्रतिषेद्धमुच्यते"कचिद्विनाशकारणानुपलब्धेः कचिचोपलब्धेरनेकान्तः ।” क्षीरदधिवत् निष्कारण विनाशोत्पादौ स्फटिकादिव्यक्तीनामिति नायमेकान्तः । कस्मात् ? हेत्वभावात् । नात्र हेतुरस्ति । अकारणी विनाशोत्पादौ स्फटिकादिव्यक्तीनां न पुनर्विनाशकारणाभावात् । कुम्भस्य विनाश उत्पत्तिकारणाभावादुत्पत्तिः । एवं स्फटिकव्यक्तीनां विनाशोत्पत्तिकारणाभावाद्विनाशोत्पत्त्यभावः प्रतिक्षणमिति । निरधिष्ठानञ्च दृष्टान्तवचनं गृह्यमाणयोर्विनाशोत्पादयोः स्फटिकादिषु स्यादयमाश्रयवान् दृष्टान्तः । क्षीरविनाशकारणानुपलब्धिवद् दध्युत्पत्तिवच्चेति तु न गृह्यते । तस्मान्निरधिष्ठानोऽयं दृष्टान्तः । इति । अभ्यनुज्ञाय च स्फटिकस्य सुमित्याह-यथा भूत इति । यादृश उत्पन्नः, तथेति तादृश एव । पूर्व्वसाधितम हेतु विनाशित्वं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only