________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६श अध्यायः
सूत्रस्थानम् ।
६७७ सोऽयमुपचयापचयप्रबन्धो व्यक्तिमात्रे वेदितव्य इति”। तत्रोवाच गौतमः“नियमहेखभावाद यथादशेनमभ्यनुज्ञा।" व्याख्यातञ्च तद्वात्स्यायनेन-“पदार्थानां सर्वासु व्यक्तिपूपचयापचयप्रबन्धः शरीरवदिति नायं नियमः। कस्मात् ? हेखभावात् । नात्र प्रत्यक्षमनुमानं वा प्रतिपादकमस्तीति। तस्माद यथादर्शनमभ्यनुज्ञा। यत्र यत्रोपचयापचयप्रबन्धो दृश्यते, तत्र तत्र व्यक्तीनाम् अपरापरोत्पत्तिरुपचयापचयप्रबन्धदशनेनाभ्यनुज्ञायते ; यथा शरीरादिषु । यत्र यत्र न दृश्यते, तत्र तत्र प्रत्याख्यायते : यथा ग्रावप्रभृतिषु । स्फटिकेऽप्युपचयापचयप्रवन्धो न दृश्यते। तस्मादयुक्तं स्फटिकेऽप्यपरापरोत्पत्तिरिति । यथा चाकस्य कटुकिम्ना सर्व्वद्रव्याणां कटुकिमानमापादयेत् ताहगेतदिति।” तत्र चोवाचापरः कश्चित् “यश्चाशेपनिरोधेनापूर्वोत्पादं निरन्वयं द्रव्यसन्ताने क्षणिकानां मन्यते।” क्षणिकानां भावानां द्रव्यसन्ताने द्रव्यस्योपचयापचयप्रबन्धे खलु निःशेषेण निरोधेनापचयेनापूव्वस्योपचयस्योत्पत्तिस्तत्र प्रवेभावान्वयो नास्तीति मन्वानः कश्चनोवाच-"नोत्पत्तिविनाशकारणोपलब्धेः ।" नियमहेखभावादयथादर्शनमभ्यनुज्ञा । न सवेत्रव प्राण्यप्राणिष्वभ्यनुजानीहि । कस्मात् ? उत्पत्तिविनाशकारणोपलब्धेः। प्राणिषु शरीरवत् उत्पत्तिकारणं तावदुपलभ्यते। अप्राणिप्वपि यथावयवोपचयो वल्मीकादीनाम् । विनाशकारणञ्चोपलभ्यते यथा घटादीनामवयव विभागः। यस्य खपचितावयवं निरुध्यते, स्वरूपमनुपचितावयवञ्च खरूपमुत्पद्यते तस्याशेषनिरोधे निरन्वये खपूर्वोत्पादे च न कारणमुभयत्राप्युपलभ्यते इति। तत्र सिद्धान्तमुवाचाक्षपादगौतमः-"क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच्च तदुपपत्तिः।" यथानुपलभ्यमानं क्षीरविनाशकारणं दध्युत्पत्तिकारणञ्चाभ्यनुज्ञायते, तथा स्फटिकेऽप्यपरापरासु व्यक्तिषु विनाशकारणमुत्पत्तिकारणञ्चाभ्यनुज्ञ यमिति । ___ तत्राह वादिवचनम्-“लिङ्गतो ग्रहणान्नानुपलब्धिः ।” क्षीरविनाशलिङ्गं दध्युत्पत्तिः। ततः क्षीरविनाशकारणं गृह्यते। तथा शरीरावस्थान्तरोत्पत्तिः पूर्वावस्थाया लिङ्गम् । ततः पूर्वावस्थाया विनाशकारणं गृह्यते । ततो विनाशकारणस्य नानुपलब्धिरिति। तत्रोवाच पुनर्वसुः---विनाशकारणाभावात् भावानां नाशकारणम्। न जायते यथाभूतस्तथा भावो विपद्यते ॥ इति। न हि क्षीरविनाशे कारणानुपलब्धिवद् दध्युत्पत्तिवच्च तदुपपत्तिभवति । विनाशः स्यात्, नावश्यम्भावी स्यात् ; एतद्विपर्ययाच्चानपेक्षत्वं विनाशस्य सिद्धम्। सम्प्रति अहेतुको विनाश उत्पत्त्यन्तरमेव स्यात्, पश्चात् स्थिरत्वेन संस्काराधानमपि भावेषु न पाय॑ते
For Private and Personal Use Only