________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६७६
[चिकित्साप्राभृतीयः
तच्चा
चरक संहिता | पूर्वावस्थविषमस्वभावनाशमुपयन्ति । न तु विषमस्वभावनाशं प्राप्योत्तरावस्थां साम्यस्वभावेनारभन्ते । तस्मात् प्रवृत्तौ खलु भावानामुत्पत्तौ कारणमस्ति न तु निरोधे । वक्ष्यते च स्वयं खुड्डीकागर्भावक्रान्तिशारीरे - आत्मजश्चायं गर्भ इत्यारभ्य “गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भलेन जनयत्यात्मात्मानमात्मसंज्ञो हि गमः । तस्य पुनरात्मनो जन्मानादिलान्नोपपद्यते । तस्मादजात एवायमजातं गर्भं जनयति । अजातो ह्यजातेन जनितः । स चैव गर्भः कालान्तरेण वालयुवस्थविरभावान प्राप्नोति ; स यस्यां यस्यामवस्थायां वर्त्तते तस्यां तस्यां जातो भवति । या त्वस्य पुरस्कृतावस्था तस्यां जनिष्यमाणः । तस्मात् स एव जातवाजातश्च युगवद् भवति । तस्मिंश्च एतदुभयं सम्भवति जातवञ्चैव जनिष्यमाणत्वञ्च । स च जातो जन्यते । स चैवानागतेष्ववस्थान्तरेष्वजातो जनयत्यात्मनात्मानम् । सतो ह्यवस्थान्तरगमनमात्रमेव जन्म चोच्यते । तत्र तत्र वयसि तस्यां तस्यामवस्थायाम् । यथा सतामेव शुक्रशोणितवीजानां प्राक् संयोगाद्गर्भखं न भवति । तच्च संयोगाद् भवति । यथा सतस्तस्यैव पुरुषस्य प्रागपत्यात् पितृखं न भवति पत्याद्भवति । तथा सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातखं चोच्यते " इति । अथ - शीघ्रगत्वाद् यथा भूतस्तथा भावो विपद्यते इति । भावः किं प्राणी चाप्राणी चोच्यते ? तेषाञ्च शीघ्रगले किं कारणमिति ? तत्रोच्यते केनचिन्महर्षिणा - प्राणी चामाणी च सर्व्वे भावः क्षणिकः शीघ्रगः । पाञ्चभौतिकत्वेऽपि सर्वेषां दिक्कालोपादानकत्वाच्चक्रवद्भ्रमणस्वभावेन कालेऽविरतं भ्रामितत्वादिति वादमाश्रित्य वादिवचनमक्षपादगौतमेनोक्तम् “स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्व्यक्तीनाम्” इति । व्याख्यातञ्चैतद्वात्स्यायनेन"स्फटिकस्याभेदेनावस्थितस्योपधानभेदान्नानात्वाभिमानः । कस्मात् स्फटिकेऽप्यपरापरोत्पत्तेः 1: 1 स्फटिकेऽप्यन्या व्यक्तय उत्पद्यन्ते अन्या निरुध्यन्ते इति, कथम् ? क्षणिकत्वाद्व्यक्तीनाम् । क्षणश्चाल्पीयान् कालः । स्थितिकाः क्षणिकाः । कुतः पुनर्गम्यते क्षणिका व्यक्तय इति ? उपचयापचयप्रबन्धदर्शनाच्छरीरादिषु । पक्तिनिर्व्व तस्याहाररसस्य शरीररुधिरादिभावेनोपचयोऽपचयश्च प्रबन्धेन प्रवर्त्तते । उपचयाव्यक्तीनामुत्पादोऽपचयान्निरोधः । एवञ्च सत्यवयवपरिणामभेदेन वृद्धिः शरीरस्य कालान्तरेण गृह्यत इति । एवं मन्यते -- नित्यगः कालो यथा विनश्वरत्वे न हेत्वन्तरं विनाशेऽपेक्षते, तथा सर्व्व एव भावाः, यद्धि यस्य हेत्वन्तरापेक्षं, न तस्य तदवश्यम्भावि, यथा- परस्य रागः हेत्वन्तरापेक्षी बेट
क्षण
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only