________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ अध्याय..
सूत्रस्थानम् ।
६७५ तच्छिष्यवचनं श्रुत्वा व्याजहार पुनव्वसुः । श्रूयतामत्र या सौम्य युक्ति ष्टा महर्षिभिः ॥ १६ ॥ न नाशकारणाभावाद भावानां नाशकारणम् । ज्ञायते नित्यगस्येव कालस्यात्ययकारणम् ॥ शीघगत्वाद यथाभूतस्तथा भावो विपद्यते ।
निरोधे कारणं तस्य नास्ति नैवान्यथाक्रिया ॥ १७ ॥ हि चिकित्सोच्यते। यदि स एव वैषम्योपरमः सदा भवति तदा किमथ चिकित्साकम्म भिपजा प्रयुज्यते ? इत्यग्निवेशोऽभाषत ॥ १५ ॥
गङ्गाधरः-- तत्रोत्तरमाह शिप्यस्याग्निवेशस्य तद्वचनं श्रुखा पुनर्वसुरात्रेयो व्याजहार। किं व्याजहार ? नदाह -श्र यतामित्यादि । अत्र भावानां सदा म्वभावोपग्मं महर्षि भिर्या युक्तिर्या बुद्धिष्टा सा श्रयतां सौम्याग्निवेशेति ॥१६।।
गङ्गाधरः - कीदृशी सा युक्तिरिति ? अत आह-न नाशेत्यादि । भावानां सदव स्वभावस्योपरमो यो नाशस्तस्य कारणं न ज्ञायते नोपलभ्यते । कस्मात ? नाशकारणाभावात्। यथा नित्यगस्य कालस्य सदात्ययोऽनवरतमतीतलं ज्ञायते, तस्यात्ययस्य कारणं न ज्ञायते शीघ्रगखात्। भावानां स्वभावो हि शीघ्रगः। यथा कालस्वभावोऽपि चक्रवद् भ्रमणात्मकः स च शीघ्रगः। तस्मान्नाशकारणाभावो न नाशकारणं सम्भवति । तहिं कथं भावानांस्वभावोपरमः सदा स्यादिति ? अत आह---यथाभूत इत्यादि। यो भावो यदा यथाभूतो वत्तंते तथाखेनोत्तरावस्थामारभ्य पूर्वावस्थानतो विपद्यते। तत्र पूर्वावस्थाया निरोधे तस्य कारणं नास्ति। न च तन्निरोधेऽन्यथाक्रिया पूर्वभावादन्यथाक्रियोत्तरावस्थायामस्ति । यथा हेतुवैषम्याद्धातवो वातादयो विषमा भवन्ति । विषमा एवोत्तरावस्थां तत्पूर्वावस्थिकविषमरूपेणैवारभ्य चिकित्सा नास्तीत्यर्थः : किमर्थ वा प्रयुज्यत इति यन्निवृत्त्यर्थं चिकित्सा प्रयुज्यते तदातुवैषम्यं स्वभावान्निवृत्तमिति चिकित्साप्रयोजनं नास्ति ॥ १५॥
चक्रपाणिः- पूर्वोक्तहेतुविनाशं दृशान्तेन हेतुमन्तमाह---न नाशेत्यादि। भावानां नाशकारणं न ज्ञायते, तत् किमभावादेव, यथा--शश-विषाणं, तद् वाऽज्ञानयोग्यत्वात् पृथिव्यां निखातमूलकीलकादिवत सदपि न ज्ञायते. इत्याह-नाशकारणाभावात् इति, नाज्ञानयोग्यत्वेन, किं तहरभावादेवेत्यर्थः ; अन दृशान्तमाह-नित्यगस्येत्यादि। निमेषादिरूपत्वेन निस्यगस्य,
For Private and Personal Use Only