________________
Acharya Shri ka
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
६७४
चरक-संहिता। चिकित्साप्राभृतीयः एवमुक्तवार्थ*माचार्य्यमग्निवेशोऽभ्यभाषत। खभावोपरमे कर्म चिकित्साप्राभृतस्य किम् ॥ भेषजैविषमान् धातून् कान् समीकुरुते भिषक् ।
का वा चिकित्सा भगवन् किमर्थं वा प्रयुज्यते ॥ १५ ॥ विनाशे कारणं नास्ति । इत्यकारणं प्रतिक्षणं भङ्गः स्यादिति। तत्र केचिन्महर्षयो भावानां स्वभावोपरमेऽविरतनिरोधे हेतोरवर्तनं हेतुर्नास्तीति य एव हेतोरसद्भावस्तमेव भावानां सदा स्वभावोपरमे हेतु मन्यन्ते ।।१३।१४ ।।
गङ्गाधरः-एवमित्यादि। इत्येवमर्थमुक्त्वा वदन्तमाचायमात्रयपुनसुमभि लक्ष्यीकृत्याग्निवेशोऽभाषत। तत्रोक्त्वेति क्त्वाप्रत्ययः परापरयोगे। यथा-तत् सर्च सृष्ट्वानुपाविशदिति, नदीं गला पर्वतोऽयमिति, न तु पूर्वकाले। क्रिययोरेककर्तृकयोराचार्यकर्तृ कक्रियान्तराभावात्, भिन्नकर्तृकयोरेककत्तू कयोर्वा । यथा यत्र क्रियाद्वयं पूर्वपरकालस्थं तत्र तवा स्यादिति ; तदा भवतु पूर्वकाले । “एककत्तू कयोः पूर्वकाले” इति सूत्रे व्यर्थमेककत्त कयोरिति पदमुपात्तं पाणिनिना। भिन्नकत्त कयोः क्रिययोः परापरयोगाभावान्न स्यात् क्त्वा इनि। अनिवेशो यदभापत नदाह--- स्वभावत्यादि। भो भगवन भावानां सदैव स्वभावोपग्मे सति चिकित्साप्राभृतस्य वैद्यस्य किं कर्म ? सदैव स्वभावोपरम विपमा धातवो न भणमपि वर्तन्ते। तदा कान विषमान् धातृन भिषक भेषनः समर्माकुरुते ? सदन च धातूनां वैपम्यस्वभावोपरमे चिकित्सा वा का म्यात : वैषम्यसमीकरणं रूपे हेत्वन्तरापेक्षा स्यात, न हुात्पन्नः खड्गः स्वाभाविक लोहमयन्य कारणान्तरमपक्षत ; तदेवं सर्वथा भावानामेव स्वाभाविके नाशे, देहधातूनामपि नाशः स्वाभाविक एवेति भावः । व्याधिप्रशम च चिकित्साऽपेक्षकं पक्षान्तरमाह केचिदित्यादि। नत्रापि विनाशेऽपि हेतु कारणं, हेतोरवर्तनमिति उत्पादकहेतोरभावं मन्यन्त इति योजना , एवमपि हेनुपरम्परायाः क्षणिकत्वेन तत्कार्याणामपि स्वभावादेव नित्यसन्निहितसहेतुविनाशहेतूनां न विनाशहेतुचिकित्सापेक्षेति भावः ॥ १४ ॥
चक्रपाणिः -- एवमुत्थितायां शङ्कायां गुरु पृच्छति एवमित्यादि। --किमित्याक्षेप, कम्म साध्यं, स्वभावोपरमे सति न किमपि साध्यं पश्यामीति भावः । कान् समीकुरुते, विषमाणाम अस्थिरत्वेन साम्यं तत्र कत्तुं न पार्यते इत्याशयः ; का वा चिकित्सेति रोगप्रशमं प्रत्यकारणत्वन
* एवमुक्तार्थमिति चक्रपाणिसम्मतः पाठः ।
For Private and Personal Use Only