________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
२७१
४ अध्यायः]
सूत्रस्थानम् । तेषां कर्मसु वाहोषु योगमाभ्यन्तरेषु च। संयोगश्च प्रयोगश्च यो वेद स भिषग्वरः ॥ १४ ॥
इति भेषजचतुष्कः। इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृत श्लोकस्थाने षडविरेचन
शताश्रितीयो नाम चतुर्थोऽध्यायः ॥ ४॥ मन्दानामल्पबुद्धीनां व्यवहाराय बुधानां बुद्धिमतां बुद्धिमृद्धयेऽनुक्तार्थशानायायं पश्चाशन्महाकषायावधारणहेतुवादसहित उदाहृतः। हि शब्द एवार्थे ।
पञ्चाशन्महाकषायोपदेशप्रयोजनमाह-तेषामित्यादि। तेषां पञ्चाशतो महाकषायाणां यथायोग्यं स्वस्थपुरुषे वातुरपुरुषे वा वाह्य षु कर्मसु प्रलेपावगाहादिषु, आभ्यन्तरेषु वमनादिषु कर्मसु च विषयेषु कर्तव्येषु संयोगं परस्परमुचितानां मेलकमयौगिकानां पृथककरणं प्रयोगश्च कालदेशपकृत्यादापेक्षया योजनाश्च यो वेद वेत्ति स भिषग्वर इति ॥१४॥
अध्यायं समापयति-अग्निवेशेत्यादि । प्राग्वत् सर्व व्याखो यम् । इति भेषजचतुष्क इति स्वस्थातुरपरायणभेषजोपदेशैश्चतुर्भिरध्यायनिष्पन्न एकः परिच्छेदः समाप्तः।
इति श्रीगङ्गाधररायकविरत्नविरचिते चरकजल्पकल्पतरौ सूत्रस्थानजल्पे
प्रथमस्कन्धे चतुर्थाध्यायजल्पाखरा चतुर्थी शाखा ॥४॥ दुर्घटमेव। वाह्य षु प्रलेपादिषु, आभ्यन्तरेषु वमनादिषु, संयोगं द्रव्याणामुचितं मेलनं, प्रयोग कालप्रकृत्यपेक्षया योजनाम् ॥ १४ ॥
इति भेषजचतुष्कः। इति चरकचतुरानन-श्रीमश्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां षड् विरेचनशताश्रितोयो नाम चतुर्थोऽध्यायः ॥ ४॥
For Private and Personal Use Only