________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
चरक-संहिता। पड़ विरेचनशताश्रितीय: रसा लवणवाश्च कषाया इति संज्ञिताः। तस्मात् पञ्चविधा योनिः कषायाणामुदाहृता ॥ तथा कल्पनमप्येषामुक्तं पञ्चविधं पुनः। महताश्च कषायाणां पञ्चाशत् परिकीर्तिताः॥ पञ्च चापि कषायाणां शतान्युक्तानि भागशः। लक्षणार्थ प्रमाणं हि विस्तरस्य न विद्यते ॥ न चालमतिसंक्षेपः सामर्थ्यायोपकल्पते । अल्पबुद्धेरयं तस्मान्नातिसंक्षेपविस्तरः॥ मन्दानां व्यवहाराय बुधानां बुद्धिवृद्धये ।
पञ्चाशत्को ह्ययं वर्गः कषायाणामुदाहृतः॥ यावन्ति विरेचनानि त्रयस्त्रिंशद योगशतमित्यादिना येद्र व्यमिलितैमदनफलत्रिवृतादिभिः षड़ विरेचनशतानि चतुर्भिः श्लोकैरुक्तानि इत्यर्थः। तथैवैषां षड़ाश्रया इति षड़ विरेचनाश्रयाः क्षीरादिफलानीत्यन्तेन ।
रसा इति। पञ्चानां मधुरादीनां रसानां कषायसंशा। मधुरकषाय इत्यारभ्य तन्त्रे संज्ञत्यन्तेन तस्माल्लवणवज्जरसात् पञ्चधा कषायाणां योनिः सुतरामुदाहृता। तथा कल्पनमेषामिति पञ्चविधं कषायकल्पनमित्यारभ्य सर्वत्रोपयोगीनि भवन्तीत्यन्तेन निर्देशोपदेशाभ्याम् । पञ्चाशन्महाकपाया इत्यारभ्य लक्षणोदाहरणार्थ व्याख्याता भवन्तीत्यन्तेन महताश्च कषायाणां पञ्चाशत् परिकीर्तिता निर्देशेन प्रोक्ताः। तेषामित्यारभ्य व्याख्याता भवन्तीत्यन्तेन महतां कषायाणां पञ्चाशतो विभागशो दशदशावयविकतया विभागेन पञ्च कषायाणां शतानि चापि उक्तानीति। न हीत्यारभ्यास्तीत्यन्तेन लक्षणार्थ विस्तरस्य प्रमाणं न विदाते इत्युक्तं, न चेत्यारभ्य चोद्दिष्टा इत्यन्तेनातिसंक्षेपः सामर्थाय नालं न समर्थः कल्पाते इत्युक्तम् । एतावन्त इत्यारम्य शिष्षेभ्य इत्यन्तेन नातिसंक्षेपविस्तरः पञ्चाशत्कोऽयं कषायाणां महाकषायाणां वर्गः विरेचनशतानि षडिति। लक्षणार्थमित्यादिग्रन्थोऽनतिसंक्षेपविस्तरेणोक्तपञ्चाशन्महाकषायोपपत्तिसंग्राहकः। अलमतिसमथः, अल्पबुद्धस्यमिति पदमतिसंक्षेप इत्यनेन सम्बध्यते। यद्यपि चेहातिसंक्षेपो नास्ति तथापि बुद्धिस्थिरीकृतः प्रत्यवमृष्यते। पञ्चाशत्को ह्यमित्यत्रायमिति पदं
For Private and Personal Use Only