________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
१६श मध्यायः
सूत्रस्थानम् । जबोरुसदनं तन्द्रा स्तमित्यं पीनसागमः। लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः ॥४॥ विपित्तकफवातानामागतानां यथाक्रमम् । परं स्त्रवति यद्रक्तं मेदोमांसोदकोपमम् ॥ निःश्लेष्मपित्तमुदकं शोणितं कृष्णमेव वा। तृष्यतो मारुतातस्य सोऽतियोगः प्रमुह्यतः॥५॥ वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि । ऊद्ध गा वातरोगाश्च वागग्रहश्चाधिको भवेत् ॥६॥ चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः।
युञ्जाद य एनमत्यन्तमायुषा च सुखेन च ॥७॥ श्लेष्मपित्तयोरेव। आध्मानञ्चारुचिश्च छर्दिश्च तथा विरेचनकृतदोब्बल्यं न भवति। अलाघवं शरीरस्य । जङ्घयोरूव्वाश्च सदनमवसादः। तन्द्रा निद्रावत् क्लान्तिः। स्तमित्यमाद्रवसनावगुण्ठितखमिव देहस्य । पीनसस्य प्रतिश्यायस्य आगमः। मारुतस्य निग्रहो नानुलोमता। एतान्यसम्यगविरिक्तानां लक्षणानि भवन्ति ॥४॥
गङ्गाधरः-अथ विरेचनस्यातियोगलक्षणान्याह-विपित्तेत्यादि । अधोभागे खलु विरेचने यस्य विडादीनां यथाक्रममागतानां परं रक्त स्रवति। तत् रक्तं मेदोमांसोदकोपमं निःश्लेष्मपित्तं केवलमुदकं कृष्णं शोणितमेव वा स्रवति । तस्य तृष्यतो मारुतातस्य मारुतलिङ्गान्वितस्य प्रमुह्यतश्च स विरेचनस्यातियोगो भवति ॥५॥ ___ गङ्गाधरः-अथ वमनातियोगलक्षणान्याह-वमनेऽतीत्यादि। वमनेऽतिशयेन कृते सत्येतान्येव कफपित्तानिलानां यथाक्रममागतानां परं रक्तं स्रवतीत्यादीनि लिङ्गानि भवन्ति । अधिकञ्च लिङ्गं वातरोगा ऊद्ध गा भवन्ति । वागग्रहश्च भवतीति। तस्मात् संशोधने कत्र्तव्ये बुद्धिमान् नरश्चिकित्सास्थौल्यानपगमः। यथाक्रममिति पठन् क्रमेणैवेति दर्शयति, यदुक्त-"प्राप्तिश्च विपित्तकफानिलानां सम्यगविरिक्तस्य भवेत् क्रमेण।” आगतानां परमूद्ध मिति योजना ॥३–५॥ चक्रपाणिः--अतियोगलक्षणं वमनेऽतिदिशति-वमन इत्यादि। वमनातियोगे विटपित्तकफ
For Private and Personal Use Only