________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६८
चरक-संहिता। चिकित्साप्राभृतीयः दौर्बल्यं लाघवं ग्लानिया॑धीनामल्यता रुचिः। हृद्वर्णशुद्विः चुत् तृष्णा काले वेगप्रवर्त्तनम् ॥ बुद्धीन्द्रियमनःशुद्धिर्मारुतस्यानुलोमता। सम्यग्विरिक्तलिङ्गानि कायाग्नेश्चानुवर्द्धनम् ॥३॥ ष्ठीवनं हृदयाशुद्धिरुत्क्लेशः श्लेष्मपित्तयोः ।
आध्मानमरुचिश्छदिरदौर्बल्यमलाघवम् ॥ गङ्गाधरः-ननु स योगात सुखमश्नुते इति यदुक्तं तत् सम्यग्योगः कथ विज्ञायत इति ? अतो विरेचनस्य सम्यग्योगलक्षणान्याह-दोब्बेल्यमित्यादि। विरेचनकृत दोब्बल्यम् न तु व्याध्यादिकृतम्। लाघवश्व शरीरस्य। ग्लानिश्चाहर्षेः शरीरस्य। व्याधीनां तेषां तेषामल्पता। एवं रुचिश्चाहारे भवति। हृच्छुद्धिर्मनोबुद्धिस्थानवक्षसः शुद्धिरजाड्यम्। वर्णशुद्धिवेणप्रसन्नता। काले क्षुधा तृष्णा मलमूत्रयोः प्रवर्तनश्च। बुद्धीन्द्रियमनसां शुद्धिः। बुद्धदेशानामिन्द्रियाणां मनसश्च शुद्धिमलापहतिः। मारुतस्यानुलोमताऽधोगतिशीलता। कायाग्नेश्च जाठराग्नेरनुक्रमेण बद्धनम् । सम्यगविरिक्तस्य लिङ्गानि भवन्ति ॥३॥
गङ्गाधरः-विरेचनस्यायोगलक्षणान्याह-ठीवनमित्यादि। ष्ठीवनं मुखेन स्वल्पोन्दिरणम्। हृदयस्याशुद्धिर्जाड्यम् । उत्क्लेश उपस्थितक्मनखमिव यावता यस्य वस्तुन उचितो योगः स योगः, तस्य स्वल्पो वा योगः सर्वथा वाऽयोगोऽयोग उच्यते, तस्यैवातिमात्रयोगो विकारकरोऽतियोगः ; अनुचितसम्बन्धेन तु वस्तुनो मिथ्यायोगः, तेनेहाप्युक्लिएश्लेष्मादिधर्मप्रयुक्त पुरुषे विरेचनं सर्वथाऽपौगिकमेव, तच्च प्रयुक्त प्रतीपगमनेनैव याति, विरेचने मिथ्यायोगोऽयमयोगः, एवं वमनादिष्वपि ज्ञेयम् ; एवम्भूतस्य मिथ्यायोगस्य अयोगेनैव ग्रहणात्, उक्त हि-"प्रातिलोम्येन दोषाणां हरणात् ते ह्यकृत्स्नशः। अयोगसंज्ञे कृच्छेण यदागच्छति चाल्पशः" ॥ इति । दृष्टविरेचनौषधस्य वमनोपयुज्यमानस्य हीनमात्रत्वातिमानत्वाभ्यां विना ययाधिकरणत्वं तन्मिथ्यायोगादेव परं स्यात् ; यदुक्त तिषणीये-“मिथ्यायोगो राशिव प्वाहारविधिविशेषायतनेपूपदेक्ष्यते” इति। सत्यं, भेषजस्य मिथ्यायोगोऽयं, वमनस्य तु दोषहरणरूपस्यायोग इति , एवञ्च विरेचनादावपि ज्ञेयम्। यद्यप्यत्रापि मिथ्यायोगः कथञ्चित् पाय॑ते कल्पयितु, तथाप प्रयोजनशून्यत्वादाचार्येण पृथङ् न कृतः, शब्दादिषु तु मिथ्यायोगिनां सम्बन्धमात्रस्यापि परिहारार्थ पृथक कृत इति ॥ १॥२॥ चक्रपाणिः-दौर्बल्यमित्यादि विरेचनस्य सम्यगयुक्तायुक्तातियुक्तस्य लक्षणानि ; अदौर्बल्यं
For Private and Personal Use Only