________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः] सूत्रस्थानम् ।
२६७ एवंवादिन भगवन्तमात्रयमग्निवेश उवाच। नैतानि भगवन् पञ्च कषायशतानि पूर्य्यन्ते। तानि तानि ह्य वाङ्गानि संप्रवन्ते तेषु तेषु महाकषायेष्विति ॥ १२॥
तमुवाच भगवानात्र यः। नैतदेवं बुद्धिमता द्रष्टव्यमग्निवेश, एकोऽपि ह्यनेकां संज्ञां लभते कार्यान्तराणि कुर्वन् । तदयथा पुरुषो बहूनां कर्मणां करणे समर्थो भवति। स यद
गङ्गाधरः-अत्र पूर्वपक्षमुत्थापयति-एवमित्यादि। पञ्च कषायशतानि न पूयन्ते इत्यत्र हेतुमाह-तानि तानि हीत्यादि। हि यस्मात् जीवनीयादिषु तेषु तेषु महाकपायेषु पञ्चाशदन्यतमेषु तानि तानि जीवकादीन्यङ्गानि दशान्यतमैकानेकान्यतमानि संप्लवन्ते एकस्य महाकषायस्याङ्गमेकमनेक वान्यस्मिन महाकषायेऽवगाहते पुनः पठ्यते इति, तस्मात् पञ्च कषायशतानि न पूर्यन्ते न्यू नाश्च भवन्ति, इति पूर्वपक्ष सिद्धान्तं दर्शयतितमुवाचेत्यादि। तमित्यग्निवेशम् । आत्रेय इति पुनर्वसुः। कि सिद्धान्तमुवाचात्रेय इत्यतस्तदुक्तसिद्धान्तवचनमाह-नैतदित्यादि। एतदिति यदुक्तम् "अग्निवेश भवता तदेतद् एवप्रकारेण बुद्धिमता सुधिया न दष्टव्यम्” इति प्रतिक्षा । करमादित्यतस्तत्र हेतुमाह-एकोऽपि हीत्यादि। हि यस्मात् एकोऽपि एकः खरूपोऽपि ; अपिशब्दादनेकस्तु सुतरां कार्यान्तराणि कुर्वननेकां संज्ञां लभते इति हेतुः। तस्माज्जीवनीयान्तर्गतजीवकादिक्षीरकाकोल्यादिरेकोऽपि जीवनहितः सन्नपि हणं कुर्वन् हणीयोऽपि भवतीति, तस्मात् जीवनीयः काकोल्यादिष्ट हणीय एवेति प्रकारं बुद्धिमता द्रष्टव्यमित्यर्थः। ननु कथमेकः कार्यान्तरं कुर्वननेकां संज्ञां लभते इत्याकाङ्क्षायां दृष्टान्तमाह--यथेत्यादि । पुरुष इत्येकः पुरुषो देवदत्तादिः कर्मणां क्रियाणां फलरूपाणां बहूनां कुम्भादुरत्पत्तिस्तण्डुलविक्लित्तिरुत्तरदेशसंयोग इत्यादीनां करणे जनकव्यापारे
चक्रपाणि:-पूर्वपक्षमुत्थापयति-एवमित्यादि। तानि तानीति जीवकक्षीरकाकोलीप्रभृतीनि, तेषु तेषु जीवनीयवृहणीयशुक्रजननादिषु, उपप्लवन्ते पुनःपुनस्तान्येव पठ्यन्ते, एकं द्रव्यमनेकेषु पव्यमानमेकमेव ; ततश्च न संख्या पूर्यते ; इति पूर्वपक्षं सिद्धान्तयति नैतदेवमित्यादि। एकस्थानेकत्वेनाभिधाने दृान्समाह-यथेत्यादि । एकः पुरुषः कर्मणां व्यापाराणाम् ओदनपचनकुम्भकरणखनित्रकरणभूमिखननानां करणे समर्थो भवति, य इत्यध्याहार्य, स इत्युक्तगुणं पुरुषं प्रत्यव
For Private and Personal Use Only