________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। चिकित्साप्राभृतोयः भेषजयिते पथ्यमाहारैश्चैव वृहणम्। घृतमांसरसचीर-हृद्ययूषोपसंहितैः ॥ अभ्यङ्गोत्सादनैः स्नाननिरूहैः सानुवासनैः। तथा स लभते शर्म युज्यते चायुषा चिरम ॥१०॥ अतियोगानुबन्धानां सपिष्पानं प्रशस्यते । तैलं मधुरकैः सिद्धमथवाप्यनुवासनम् ॥ यस्य त्वयोगस्तं स्निग्धं पुनः संशोधयेन्नरम् । मात्राकालबलापेक्षी स्मरन् पूव्वमनुक्रमम् ॥ ११ ॥
पुनरागतिध्रुवा भवति। भेषजक्षयिते खलु संशोधनौषधैः क्षयो मूलोच्छेदो जातो यस्य तस्मिन् भेषजक्षयिते दोषे सति स संशुद्धः पुमान् पथ्यं तथाहारैश्च घृतादुरपसंहितैघृतादियुक्तंट हणमभ्यङ्गादिभिश्च हणं लभते। तथा शम्म सुखं लभते। चिरञ्चायुपा युज्यते। यथा माणां मूले च्छिन्ने प्रसराः पुनगच्छन्ति ॥ ९।१०॥
गङ्गाधरः-ननु प्रमादेन वैद्यमानिना बबुधेन कृते संशोधनेऽतियोगे निवृत्ते यद्यनुवन्धो वर्त्तते तदा किं कर्तव्यमिति ? अत आह-अतियोगेत्यादि। येषामतियोगकृतलक्षणानुबन्धो वर्त्तते तेषां तत्तापत्पशमनौषधस्य सर्पिषः पानम् । अथवा मधुरकैर्जीवनीयैदेशभिः सिद्धं कल्कैः साधितं तैलमनुवासनं प्रशस्यते। अथ यस्य विरेकायोगः स्यात् तं जनं पुनः स्नेहेन स्निग्धं स्वेदेन च खिन्नं पूर्व यादृशमौषधं यन्मानं दत्तं तेन न सम्यक् युक्तमभूत। तत सर्वमनुक्रमं स्मरन् मात्राकालबलान्यपेक्ष्य पुनः संशोधयेदिति ॥११॥
चक्रपाणिः-सम्प्रति शोधनेन यथा दोषक्षयः तथा धातुक्षयोऽपि स्यात्, तेन प्रतिकारमाहभेषज इत्यादि। आहारैरेवेत्येवावधारणे, तेन, भैषज्यैः वृहणं निषेधति, भेषजस्य वीर्यप्रधानस्य तदा दुःसहत्वात् । अनुवासनैरित्यत्र चकारो बोद्धव्यः, तेन अभ्यङ्गादिभिश्च वृहणं पथ्यम् ॥ १०॥
चक्रपाणिः-अतियोगादिचिकित्सामाह-अतियोगेत्यादि। स्मरन् पूर्वमनुक्रममित्यनेन, यः
For Private and Personal Use Only