________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ उपकल्पनीयः श्चित्तमिष्टतिथिनक्षत्रकरणमुहूर्ते ब्राह्मणान् स्वस्ति वाचयित्वा त्रिवृत्कल्कमक्षमात्र यथार्हालोडनप्रविनीतं पाययेत्। ग्रसमीक्ष्य दोष-भेषज-देश-काल-बल-शरीराहार-सात्म्य-सत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च। सम्यक विरिक्तञ्चैन वमनोक्तेन धूमवर्जेन विधिनोपपादयेत् आ बलवर्णप्रतिलाभात्। बलवर्णोपएन्नञ्चैनमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःलातमनुलिप्तगात्रं स्रग्विणमनुपहतवस्त्रसंवीतम् अनुरूपालङ्कारालङ्कतं सुहृदां दर्शयित्वा ज्ञातीनां दर्शयेत् । अथैनं कामेष्ववसृजेत् ॥ १६ ॥ ब्राह्मणान् स्वस्ति बाचयित्वा दोषभेषजादीनामवस्थान्तराणि विकारांश्च प्रसमीक्ष्य विवेच्य विकल्कमात्रां विरेचनौषधस्य मात्रां यथार्हणालोडनद्रवेण प्रतिविनीतमालोड्य पाययेत्।
सम्यगित्यादि। सम्यग विरिक्तश्च खल्वेनं पुरुषं वमनोक्तेन विधिना धृमवज्जेनोपपादयेदुपचारयेत् । तद्यथा-निवृत्ते विरेचने सुप्रक्षालितपाणिपादास्यमेनं निवातमगारमनुप्रवेश्य संवेश्य शय्यायामनुशिष्यात्। उच्चैर्भाष्यादीनि मनसाप्यसेवमानः सव्वेमाहारमद्या इति। स तथा कुर्यात् । ततः सायात परे वाह्नि सुखोदकपरिषिक्तमित्यादुप्रक्तक्रमेणाहारविधानसेवनं कारयेदा बलवर्णप्रतिलाभात् । सम्यग्योगायोगातियोगलक्षणश्च । काले प्रवृत्तिरनतिमहती व्यथा यथास्वं दोपहरणं स्वयञ्चावस्थानमिति समयोगलक्षणानि भवन्ति, एवं सम्यग्योगेन तीक्ष्णमध्यमृदुभेदो विरेचनस्यापि ज्ञ यः । तदयथा“जघन्यमध्यप्रवरे तु वेगाश्चखार इष्टा वमने षडष्टो। दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च ॥ पित्तान्तमिष्टं वमनं विरकादर्द्ध कफान्तञ्च विरेकमाहुः। द्वौ त्रीन् सविटकानपनीय वेगान् मेयं विरेके वमने तु पीतम् ॥" इति। योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमिति । तदतियोगनिमित्ता
चक्रपाणिः-अथैनमिति कृतसंसर्जनक्रम, प्रतिविनीतम् आलोड़ितं, दोषादयः पूर्ववद . व्याख्येयाः ; विकारांश्चेति कुष्टज्वरादीन् विरेचनसाध्यान्, पूर्वन्तु "सूक्ष्माणि हि' इत्यादी
* वमनानन्तरलक्षणोक्त नेति चक्रपाणिगृहीतः पाठः ।
For Private and Personal Use Only