SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः ६६३ सूत्रस्थानम्। मोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपन्नेन मुद्गयूषण भोजयेत। एवमष्टमे नवमे चान्नकाले। दशमे त्वन्नकाले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेनापि सारवता भोजयेत् ; उष्णोदकानुपानम् । एवमेकादशे द्वादशे चान्नकाले। अत ऊर्द्धमन्नगुणान् क्रमेणोपभुञ्जानः सप्तरात्रण प्रकृतिभोजनमागच्छेत् ॥ १५ ॥ __ अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं कृतहोमबलिमङ्गलजन्यप्रायतण्डुलानां द्विप्रसृतं चतुःपलं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना खल्वघनेन तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत् । एवंप्रकारेणाष्टमेऽन्नकाले नवमे चान्नकाले च भोजयेत् । दश खन्नकाले लावादीनां मांसरसेनातिसारवतातिघनेन तथौदकलावणिकेन व्यक्तौदकलवणवता पुराणरक्तशालितण्डुलानामोदनं भोजयेत् । उःणोदकानुपानम् । तत्रानुपिबेदुष्णोदकम् । एवंप्रकारेणैकादशद्वादशवारभोजने कर्तव्ये। अत ऊर्द्ध त्रयोदशवारान्नभोजनेऽन्नगुणान् यथाभिकामं गुरुकठिनमधुरादीन् क्रमेणोपभुञ्जानः सप्तरात्रेण प्रतिदिनं द्विराहारेण चतुर्दशभिराहारैः प्रकृतिभोजनं स्वाभाविकमाहारमागच्छेत् इति ॥१५॥ ___ गङ्गाधरः---चमनविधानमुक्त्वा विरेचन विधानमाह-अथैनमित्यादि । अतः परमेनं वमितं जातवलम्। सप्ताहादूद्ध पुनरेवोक्तरूपेण स्नेहस्वेदाभ्यां पूर्व स्नेह यिखा स्वेदेनोपपन्नं कृत्वाऽनुपहतमनसं प्रसन्नचित्त . प्रसमीक्ष्य वैद्यः सुखोपितं सुखेन रात्रौ कृतवासं सुप्रजीर्णभक्तं कृतहोमादिकम् इष्टतिथ्यादौ कुर्यान्न लकनम् ॥” इति । मण्डपूर्वी मण्डप्रधानाम्, अयञ्च द्वादशकालनिवर्तनीयः क्रमः प्रधानशुद्धिशुद्ध शेयः ; मध्ये त्वानुकालिकः ; उक्त हि-"पेयां विलेपीम्" इत्यादि। अत इत्यादि । अनुगुणान् मधुरादीन् गुरुकठिनादींश्च ; एतच्च संसर्जनक्रमादूद्ध सप्तरात्रेण प्रकृतिभोजनगमनं तदा कर्त्तव्यं, यदि वमनानन्तरं विरेचनं न कर्त्तव्यं भवति ; तत्करणे तु संसर्जनक्रमादूद्ध मेव स्नेहपानं, यदुक्त..."संस टभक्त नवमेऽह्नि सर्पिस्तं पाययेद्वाप्यनुवासयेद्वा" इति। तथा सुश्रुतेऽप्युक्त ---"पक्षाद्विरेको वान्तस्य' इति । यदि संसर्जनक्रमं तथानुगुणाभ्यासश्च कृत्वा स्नेहः क्रियते, तदा पक्षाद विरेको वान्तस्य न स्यात् ॥ १५ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy