________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ उपकल्पनीयः
६६२
चरक-संहिता। विषमभोजनवेगसन्धारणोदीरणमिति भावानेतान् मनसाप्यसेवमानः सर्चमाहारमद्या इति। स तथा कुर्य्यात् ॥ १४ ॥ ___ अथैनं सायाह परे वाहि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डलानां स्ववक्लिन्नां मण्डपूर्वा सुखोष्णां यवागू पाययेदग्निबलमभिसमीक्ष्य च, एवं द्वितीय तृतीये चान्नकाले। चतुर्थे वन्नकाले तथाविधानामेव शालितण्डुलानामुस्विन्नां विलेपीमुष्णोदकद्वितीयामस्नेहलवणाम् अल्पस्नेहलवणां वा भोजयेत्। एवं पञ्चमे षष्ठे चान्नकाले । सप्तने त्वन्नकाले तथाविधानामेव शालीनां द्विप्रमृतं सुस्विन्नदिवा स्वप्नं विरुद्धादिभोजनं मलमूत्रादिवेगसन्धारणमनुदीर्णानां मलादिवेगानामुदीरणम् । इत्येतान् भावान् मनसाप्यसेवमानः सव्वैमाहारमद्याः इत्यनुशिष्यात् । स वमितः पुमांस्तथा कुर्यात् ॥१४॥ . गङ्गाधरः-अथैनमित्यादि। एवं निवातगृहे शयानमेनं पुरुषमथानन्तरं साया ऽथवा परदिने सुखोदकपरिषिक्तं शिरःस्नातं वा पुराणानां समातीतानां लोहितशालिताडुलानां यवा स्ववक्किन्नामतिद्रवीभूतां सुखोप्णां मण्डपूर्वामादौ तदुपरितनद्रवांशं पीखाग्निबलमभिसमीक्ष्य शेषं घनीभूतांश पाययेत् । ततो द्वितीयभोजनकाले तृतीयभोजनकाले चाग्निवलमभिसमीक्ष्य तथाभूतां यवा पाययेत्। चतुर्थे खन्नकाले तथाविधानां पुराणानां लोहितशालि. तण्डुलानामुत्स्विन्नामतिसिद्धां विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत् । इह भोजने तदुष्णोदकपानादिवचनेन पूर्वेषु त्रिषु जलस्नेहलवणानि वज्जयेदिति ज्ञापितम् । एवं पञ्चमे षष्ठे चान्नकाले च चतुर्थान्नवद्विधिः।
सप्तमे इत्यादि। सप्तमे खन्नकाले तथाविधानां पुराणानां लोहितशालियस्य युज्यत इत्यर्थः, अतिस्थानमिति अत्यर्थं दण्डायमानत्वेनावस्थितिः , प्रमितभोजनमेकरसाभ्यासः ; अतिहीनकं नटशक्तिकं धान्यादि ; गुरुशब्देन स्वभावगुरुलड्डुकचिपिटकादेर्यथोक्तमात्रयापि भोजननिषेधः ॥ १४ ॥
चक्रपाणिः-सायाह्न इत्यादौ सम्यगग्निशुद्धिलक्षणे भूते सायाह्न, किञ्चित्त्वविशुद्धावपरेऽह्नि ; यदुक्त सिद्धौ--वमितं लङ्घयेत् सम्यक् जीर्णलिङ्गान्यपेक्षयन् । तानि दृष्ट्वा तु पेयादिक्रम
For Private and Personal Use Only