________________
Shri Mahavir Jain Aradhana Kendra
१५श अध्यायः ]
www.kobatirth.org
सूत्रस्थानम् । भवन्ति चात्र ।
अनेन विधिना राजा राजमात्रोऽथवा पुनः । यस्य वा विपुलं द्रव्यं स संशोधनमर्हति ॥ दरिद्रस्त्वापदं प्राप्य प्राप्तकालं विरेचनम् । पिबेत् काममसंभृत्य सम्भारानपि दुर्लभान् ॥ न हि सर्व्वमनुष्याणां सन्ति सर्व्वपरिच्छदाः । न च रोगा न बाधन्ते दरिद्रानपि दारुणाः ॥ यद्यच्छक्यं मनुष्येण कर्त्तुमौषधमापदि । तत्तत् सेव्यं यथाशक्ति वसनान्यशनानि च ॥ मलापहं रोगहरं बलवर्णप्रसादनम् ।
८४
Acharya Shri Kailassagarsuri Gyanmandir
पीत्वा संशाधनं सम्यगायुषा युज्यते चिरम् ॥ १७॥ आध्मानादयश्वोपद्रवा व्यापदो भवन्ति । ते वमने प्रागुक्ताः । सिद्धिस्थाने विस्तरेण वक्ष्यन्ते सिद्धयश्च तासामिति ।
अथ वैद्यो यत् कुर्य्यात् तदाह - वलवर्णोपपन्नञ्चेत्यादि । कामेष्ववसृजेत् तस्य यथाकामं कम्पेसु कत्तव्येषु विधानमादिशेदिति ॥ १६ ॥
गङ्गाधरः - अथोपसंहरति भवन्ति चात्रेत्यादि । अनेनेत्यादि । अनेनोक्तरूपेण विधिना राजा राजमात्रो वा धनवान् वा यस्य विपुलं धनमेव द्रव्यमस्ति, स एवंविधानेन संशोधनमहेति, न त्वन्यः । दरिद्रस्तु खलु यदा व्याधिरूपमापदं प्राप्नोति तदा दुर्लभान् सम्भारानसम्भृत्यापि काममिष्टतः पिबेत् । कस्मात् ? न हीत्यादि । हि यस्मात् सर्व्वमनुष्याणां सव्वेपरिच्छदा न सन्ति । न च दारुणा रोगा दरिद्रान् न बाधन्ते ? अपि च बाधन्ते । अत एव यद्यद् येन मनुष्येणौषधमापदि रोगे कत्तुं शक्यं यथाशक्ति तत् सेव्यं तेन । तथा विकारो नोक्तः, तस्य परीक्ष्यत्वेनैव ग्रहणात्, किंवा, दोषग्रहणेनैव तत्र विकारग्रहणम् ; कामेषु ईप्सितेषु, अवसृजेन्निर्यन्त्रणं कुर्य्यात् ॥ १६ ॥
चक्रपाणिः सम्प्रति दरिद्वस्य यथोक्त सम्भारमकृत्वापि संशोधनकरणमाह-दरिद्र इत्यादि । दुर्लभानिति वचनेन सुलभानि दरिद्रेणोत्पादनीयानि ।
संशोधनकरणगुणमाह-मलापह
मित्यादि ॥ १७ ॥
For Private and Personal Use Only
६६५