________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः ] सूत्रस्थानम् ।
६५६ शरीरमुपवेगमप्रवृत्तान् प्रवर्तयन् । सूपलिखितनखाभ्यामङ्गलीभ्यामुत्पलकुमुदसौगन्धिकनालैर्वा कण्ठमनभिस्पृशन् सुखं प्रवत्तैयस्वेति। स तथाविधं कुर्य्यात् । ततोऽस्य वेगान् प्रतिग्राहगतानवेक्षत। वेगविशेषदर्शनाद्धि कुशलो योगायोगातियोगविशेषानुपलभते। वेगविशेषदर्शी पुनः कृत्यं यथार्हमवबुध्येत क्षणेन, तस्माद वेगानवेक्षतावहितः ॥ ११ ॥
तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति। तद् यथा-अप्रवृत्तिः कुतश्चित् केवलस्य वाप्यौषधस्य विनंशो वेगव्यापारण उदीर्णान वमिवेगानुदीरयन् प्रेरयन् किश्चिदवनम्य ग्रीवादिकम् अप्रत्तान् वमिवेगसमीपवेगान् प्रवर्तयन् सूपलिखितौ नखौ ययोस्ताभ्यां सुकर्तितनखाभ्यामङ्गलीभ्यां तर्जनीमध्यमाभ्यां कण्ठमनभिस्पृशन्नीपदभिस्पृशन् सुख वमिं प्रवत्तयस्व। अथवोत्पलादिनालैः कण्ठमीषदभिस्पृशन् प्रवत्तेयस्वेति अनुशिष्यात् ।।
स इत्यादि। ततः स पुरुषस्तथाविधं कुर्यात् । स वमनाय प्रवर्त्तमानः पुमानुक्तानुशासनप्रकारेण वमेत् । वैद्यस्तु ततो वमतः पुरुषस्यास्य प्रतिग्राहगतान् वेगानवेक्षत। कस्मात् ?-वेगविशेषेत्यादि। कुशलो दक्षो वैद्यः खलु वमिवेगविशेषदर्शनादयोगादिविशेषानुपलभतेऽनुमिनोति। तथानुमाने किं स्यादिति ? अत आह -वेगेत्यादि । वेगविशेषदर्शी पुनस्तद्वेगविशेषं दृष्ट्वातियोगादीनां भाविनां यथाहं कृत्यं प्रतिकत्तव्यं तत्क्षणेन अवबुध्येतेति । तस्माद वमनवेगानवधानयुक्तः सन्नवेक्षेत ॥११॥ ___ गङ्गाधरः-ननु कीदृशलिङ्गेनायोगादीन् बुध्यतेति ? अत आह-तत्रामूनीत्यादि। अमूनि वमनस्यायोगादिविशेषविज्ञानानि भवन्ति । तद्यथाअपत्तिरित्यादि। कुतश्चित् कारणात् सूपलिखितनखाङ्गल्यादिना कण्ठस्पर्शनादपि वमनस्याप्रत्तिरीपप्रतिर्वा । केवलस्य वौषधस्य वमनाथ पीतस्य प्रवर्तन निषेधयति । वेगविशेपदर्शनाद्धीत्यादिग्रन्थस्य भाविनो योगायोगादीन् वेगविषयानुपलभ्य सर्कयतीत्यर्थः ; किंवा, वैगिकी शुद्धिरभिधातच्या "जघन्य-मध्य-प्रवरे तु वेगाश्चत्वार इशा वमने पड़ौ' इत्यादिना, तामनेन दर्शयति ॥९-११॥
चक्रपाणिः-अप्रवृत्तिः कुतश्विदिति सर्वस्यैवाप्रवृत्तिः, तथा केवलस्य कृत्स्नस्य शोधनीय.
For Private and Personal Use Only