________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
चरक संहिता |
[ उपकल्पनीयः
विबन्धो वेगानामयोगलक्षणानि भवन्ति । काले प्रवृत्तिः अतिमहती व्यथा यथास्वं दोषहरणं स्वयञ्चावस्थानमिति योगलक्षणानि भवन्ति । योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्य विभागो ज्ञेयः । योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति ॥ १२ ॥
विभ्रंशो न दोषसहितस्य । वेगानां विबन्धश्चेति वमनायोगस्य लक्षणानि । अथ वमनस्य सम्यग्योगलक्षणान्याह - काले प्रवृत्तिरित्यादि । काल इति यथाकाले नातिशीघ्रं नातिविलम्बं वमनप्रवृत्तिः । अनतिमहती व्यथा वमनकरणे क्लेशो नातिमहान् । यथास्वं दोपहरणम् । तद्यथोक्तम्- ' क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः ।' इति । स्वयमवस्थानं निवृत्तिर्वमनस्येति सम्यग्योगलक्षणानि भवन्ति । तथा दोषप्रमाणविशेषेण मनप्रवृत्तौ त्रिविधस्तीक्ष्णमध्यमृदुभेदो ज्ञेयः । सम्यग्योगलक्षणेन प्रस्थद्वयदोषनिर्गमने तीक्ष्णं वमनम्। सार्द्धप्रस्थदोपनिर्गमे मध्यमं वमनम्। एकप्रस्थदोपनिगमे मृदुवमनं विद्यात् । तथा वेगतश्च मृदुमध्यतीक्ष्णभेदा वमनस्य ज्ञ ेयाः । तदुक्तं – “ जघन्यमध्यप्रवरे तु वेगाश्चवार इष्टा वमने पड़ष्टौ ” इति । “वमने च विरेके च तथा शोणितमोक्षणे । अर्द्धत्रयोदशपलं प्रस्थमाहुमनीषिणः ॥ वमने तु पीतमपधमपनीय निर्गतदोषो मेयः स्यात् । स्वयञ्चावस्थानमिति यथास्वदोषहरणे सति स्वयमेव वमनस्यावस्थानं निवृत्तिर्भवतीति सम्यग्योगस्य वमने लक्षणानि भवन्ति । तद्योगाधिक्येन तु - फेनिलादि वमनं भवतीति वमनातियोगलक्षणानि भवन्ति ॥ १२ ॥
;
;
"
दोपस्याप्रवृत्तिः, तथैौषधस्य विभ्रंशः प्रातिलोम्येन गमनं, यथा-वमनस्याध ऊर्द्धञ्च विरेचनस्य, एतदेव सिद्धावुक्तम् - " अयोगः प्रातिलोम्येन न वाल्पं वा प्रवर्त्तनम्” इति किंवा कुतश्चिद्वा अप्रवृत्तिः स्वोकदोषप्रवृत्तिरित्यर्थः तथा केवलस्य चाप्योपधस्य प्रवृत्तिरिति ; यथाक्रममिति वमने प्रथमं श्लेष्मा, तदनु पित्तं तदनु वायुः यदुक्त' - - " क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग् वमितः स इष्टः" इति । सम्यग्योगोऽपि हर्त्तव्यदोषस्याल्पत्वमध्यत्वोत्कृष्टत्वेन त्रिविधो भवतीति दर्शयन्नाह-योगेन त्वित्यादि । तुशब्दोऽवधारणे, तेन योगेनैव यः प्रमाणविशेषोऽत्वादिस्तेन, न त्वयोगातियोगाभ्यामित्यर्थः ; अयञ्च तीक्ष्णादियोगविभागः पेयाक्रमोत्
* यथाक्रममिति चक्रपाणिस्वीकृतः साधीनान् पाठः ।
For Private and Personal Use Only