________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५८ चरक-संहिता।
[उपकल्पनीयः जानीयात् स्वेदप्रादुर्भावेणैव दोषप्रविलयनमापद्यमानम् लोमहर्षेण च स्थानेभ्यः प्रचलितं कुक्षिसमाध्मापनेन च कुक्षिमनुगतं हृल्लासास्यस्त्रवणाभ्यामपचितोडु मुखीभूतम् । अथास्मै जानुसममसंबाधं सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानं स्वापाश्रयमासनमुपवेष्टुं प्रयच्छेत् । प्रतिग्रहांश्चोपचारयेत्। ललाटप्रतिग्रहे पाश्वोपग्रहणे नाभिप्रपीड़ने पृष्ठोन्मदने च अनपत्रपणीयाः सुहृदोऽनुमताः प्रयतेरन् ॥ १०॥
___ अथैनमनुशिष्यात्-विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीर्णानुदीरयन् किश्चिदवनम्य ग्रीवामूद्धयदा स्वेदप्रादुर्भावः स्यात् तदा दोषं प्रविलयनं द्रवीभावमापद्यमानं जानीयात् । लोमहर्षेणेत्यादि । लोमहर्षो यदा स्यात् तदा दोपं स्थानेभ्यः प्रचलितं जानीयात् । यदा कुक्षिसमाध्मानं स्यात् तदा दोषं कुक्षिमनुगतं जानीयात्। यदास्य हल्लास आस्यस्रवणश्च स्यात् तदा दोपमपचितमूद्ध मुखीभूतं जानीयात् । अथानन्तरमस्मै वम्याय पुरुषाय जानुसमं जानूच्चमसंबाधं सुप्रयुक्तमास्तरणं शय्यामुत्तरप्रच्छदेनाच्छादितमुपधानयुक्तं स्वापाश्रयमासनं उपवेष्टु प्रयच्छेत् । प्रतिग्रहानित्यादि। प्रतिग्रहांश्च ये खङ्गविशेष धारयेयुस्तानुपचारयेत् । ते यथोपचरेयुस्तथा कुचतः प्रेरयेत्। तत्र यत्र यत्र प्रतिग्रहणं कारयेत् तदाह-ललाटेत्यादि। तस्य वम्यपुरुषस्य जानुसमासने तूपविष्टस्य कश्चित् परिचारकं ललाटप्रतिग्रहे यथासुखमुपमद्देने नियोजयेत्। कश्चित् तस्य पार्योपग्रहणे कश्चिन्नाभिप्रपीड़ने कञ्चित् पृष्ठोन्मईने च। ते तु सुहृद उपचारका अनपत्रपणीया व्यपगतलज्जाः सन्तो. ऽनुमतास्तत्र तत्र प्रतिग्रहणे तथा प्रयतेरन् ॥१०॥
गङ्गाधरः-अथैनमित्यादि। अथैवं प्रतिग्रहणे नियुज्य भिषगेनं वाम्यमानं पुरुषमनुशिष्यात्। भो विकृतोष्ठतालुकण्ठो भूखा नातिमहता व्यायामेन . हीत्यादि। मात्राशितीयोक्त "यावद्धपस्याशनम्” इत्यादिग्रन्थव्याख्यानानुसारेण व्याख्येयम् । अनुकाङ्गदिति परीक्षयन् धारयेत्, असम्बाधमित्यसङ्कीर्णम् । प्रतिगृह्णन्तीति प्रतिग्रहाः ललाटप्रतिग्रहादयः, अनपत्रपणीया अलजाविषयाः। उपवेगं वेगसमीपम्, एतेन सर्वथाऽप्रवृत्ते वेगे
For Private and Personal Use Only