SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५४ चरक-संहिता। [ उपकल्पनीयः विदः पारिषद्यांश्च, तथा लावकपिञ्जलशशहरिणैणकालपुच्छकमृगमातृकोरभ्रान्, गां दोग्ध्रीं शीलवतीमनातुरां जीवद्वत्सां सुप्रतिविहिततृणशरणपानीयाम्, पात्राचमनीयोदकाष्ठमणिकघटपिठरपर्योगकुम्भीकुम्भकुण्डशरावदींकटोदञ्चनपरिपचनमन्थानचमचेलसूत्रकार्पासोर्णादीनि च शयनासनादीनि च, उपन्यस्तभृङ्गारप्रतिग्रहाणि, सुप्रयुक्तापञ्चलक्षणं शास्त्रं ब्राह्मपामादिसंज्ञम् । अभिप्रायज्ञान् भर्तुरिङ्गितनाभिप्रायं ज्ञातुमर्हान् अनुमतांश्च भर्तुरभिमतान् मनोरमान्। देशकालविदश्च-यस्मिन देशे यथा कार्य तद्विदः। यस्मिन् काले च यथा विधातव्यं तद्विदश्च । एवं पारिषद्यानुपकल्प्य तथोपभोगार्थ लावादीनुपकल्पयेत्। कालपुच्छो हरिणभेदः । एणः कृष्णसारः। मृगमातृका हदुदरगृहच्छरीरहरिणः । उरभ्रो मेषः । गामित्यादि। एतान रसमांसाद्यर्थमुपकल्प्य च दुग्धाद्यर्थ गां दोग्धीं दुग्धवती शीलवतीमनातुरां जीवद्वत्सां न तु आतुरां मृतवत्सां वा। सुप्रतिविहितं भक्षणार्थ सुष्टुविहितं तृणं प्रति पुनविहितं तृणम् । तथा शरणं गृहं सुष्टु परिष्कृतं कृता प्रतिपुनःपरिष्कृतं कृता विहितम् । तथा पानाथं पानीयं दत्त्वा प्रतिपुनविहितं यस्यास्ताम् । तथा पात्रवादीनुपकल्पयेत् ।। पात्रीत्यादि। पात्री क्षुद्रपात्रम्। आचमनोदकोष्ठम् --आचमनार्थ कोष्ठं पात्रं तथोदकोष्ठमुदकाधारगृहत्पात्रम् । मणिको गोणकः । घटः प्रसिद्धो लोके । पिठरः स्थाली। पर्योगः कटाहः। कुम्भी बृहत्कुम्भः। कुम्भो दृढ़ावयवः क्षुद्रकलसः। कुण्डः खात विशेषरूपपात्रम्। शराव उपढौकनम्। दी पाकाथं दण्डः। कटः शयनासनाद्यर्थः प्रख्यातः। उदञ्चनः पिधानार्थमुत्तरशरावः। परिपचनं तैलपाचनिका। मन्थानं मन्थनदण्डः । चम्मै हरिणादीनाम्। चेलं जीर्णवस्त्रम्। सूत्रं कार्पासादीनाम्। कार्पासं तूलकम् । ऊर्णा मेषलोम। आदिना रज्जुप्रभृतीनां ग्रहणम् । तथा शयनासनादीनि चोपकल्पयेदीदृशानि। मातृका पृथूदरो हरिणः, शरणं गृहम्, आचमनीयोदकोष्ठमाचमनार्थमुदककोष्ठं, किंवा, आचम्यते येन पात्रेण तदाचमनम् ; मणिको गोलकः, पिठरः स्थाली, पर्योगः कटाहः, कुम्भो दृढ़ावयवोऽल्पमुखो घटः, कटस्तृणाविरचितमासनम्, उदञ्चनं पिधानशरावः, परिपचनं तैलपाचनिका, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy