________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५३
१५श अध्यायः]
सूत्रस्थानम्। धूमातपरजसा*मनभिगमनीयमनिष्टानाञ्च शब्दस्पर्शरसरूपगन्धानां सोपानोदूखलमुषलवर्चःस्थानम्नानभूमिमहानसोपेतं वास्तुविद्याकुशलः प्रशस्तं गृहमेव तावत् पूर्वमुपकल्पयेत् ॥५॥
ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नानुपचारकुशलान् सव्वकर्मसु पर्यवदातान् सूपौदनपाचकस्नापकसंवाहकोत्थापकसंवेशकौषधपेषकांश्च परिचारकान् सर्वकर्मस्वप्रतिकूलान् तथा गीतवादित्रोल्लापकश्लोकगाथाख्यायिकेतिहासपुराणकुशलानभिप्रायज्ञाननुमतांश्च देशकाल
यस्य तदनुपत्यकम्। वृहद्गृहपचतादेदू रदेशे तद्गृहमुषकल्पयेत्, न तु पर्वतादेः समीपे। धूमातपरजसामगम्यं तथैवानिष्टानाममनोज्ञानां शब्दादीनामगम्यश्च सर्वतोभावेनागमनानह सोपानादुरपेतम् ॥५॥
गङ्गाधरः-प्रथममीदृशं गृहं निर्माय शीलशौचादुरपपन्नानुपचारकुशलान् तत्तत्कर्माचरणे कौशलयुक्तान सव्वकर्मसु पथ्यवदातान् सर्वकम्मैकरणे निःसन्देहं शिक्षितान् सूपौदनपाचकान् स्नापकान् स्नानकारकान् संवाहकान हस्तपादादिसंमद्देकान् उत्थापकान गात्रोत्थानकारकान् शय्यासनादिभ्यः संवेशकान् शयनादिकारकान औषधपेषकांश्च परिचारकानुपकल्पयेत् । तत्र शीलं सुस्वभावः । शौचं शुचिता। आचारः साधुव्यवहारः । अनुरागो भर्तरि । अनुरक्तिभक्तिः। दाक्ष्यं तत्तत्कर्मसु निपुणता । प्रादक्षिण्यं प्रकृष्टमानुकूल्यं वामताहीनम्। तथा पारिषद्यांश्च गीतादिकुशलादीनुपकल्पयेत्। गीतादिषु कुशलान् शिक्षया निपुणान्। गीतं गानम् । वादित्रं वीणामुरजकांस्यवंश्यादिवाद्यम् । उल्लापकं स्तुतिपाठः। श्लोकः काव्यादिपद्यम् । गाथा प्रबन्धः । आख्यायिका उपलब्ध्यर्था शास्त्रविशेषः। इतिहासः पुरात्तम् । पुराणं पाठः, तेन भोगार्थानि तथा व्यापत्साधनानि गृह्यन्ते। अनुपत्यकं यद विदूरमन्यस्य महतो गृहस्य, उदकं पीयते येन तदुदपानम् ॥५॥ चक्रपाणिः-प्रादक्षिष्यमानुकूल्यम्, उल्लापकं स्तोत्रम्, इतिहासोऽज्ञायमानकर्तृकाप्तोपदेशः, मृग* धूमातपरजसामित्यत्र धूमातपजलरजसामिति तथा सोपानोदूखलेत्यत्र सोदपानोदूखलेत्यादि पाठः चक्रसम्मतः ।
For Private and Personal Use Only