________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५श अध्याय: ।
६५५
सूत्रस्थानम् । स्तरणोत्तरप्रच्छदोपधानानि स्वापाश्रयाणि, संवेशन स्नेहस्वेदाभ्यञ्जनप्रदेहपरिषेकानुलेपनवमन विरेचनास्थापनानुवासनशिरोविरेचनमूत्रोच्चारकर्म्मणामुपचारसुखानि, सुप्रक्षालितोपधानाश्च सुश्लक्ष्णखरमध्यमा दृषदः, शस्त्राणि चोपकरणानि, धूमनेत्रञ्च वस्तिनेत्रश्चोत्तरवस्तिकञ्च कुशहस्तकञ्च तुलाञ्च मानभाण्डञ्च घृततैलवसामज नौद्रफाणितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुषोदकमैरेय मेदक-धि-दधिमण्डोद स्विद्धान्याम्लमूत्राणिच, तथा शालिषष्टिकमुद्गमाषयवतिलकुलत्थबदरमृद्रीकापरूपकाभयामलकविभीतकानि, नानाविधानि च
Acharya Shri Kailassagarsuri Gyanmandir
उपन्यस्तेत्यादि । उपन्यस्तभृङ्गारप्रतिग्रहाणि समीपे धारिता भृङ्गारप्रतिग्रहा येषां तानि । भृङ्गारो नालमुखजलपात्रविशेषः । प्रतिग्रहः निष्ठीविकादिक्षेपणपात्रम् । सुप्रयुक्तानि सुविहितानि आस्तरणमुत्तराच्छादनवस्त्रमुपधानञ्च यत्र तानि । आस्तरणं खट्टादिकम् । उत्तरप्रच्छदः खादुपरि विस्तरणार्थं घनवहलवस्त्रादिकृता शय्या । उपधानं शिरोधारणार्थं तूलककृतम् । स्वापाश्रयाणि निद्रार्थ शयनशय्याः ।
शयनासनव्यतिरिक्तानि चेमान्यादिपदोक्तान्युपकल्पयेत् संवेशनेत्यादि । तानि संवेशनादिषु सुखानि । संवेशनमनियतशयनस्थानम् । स्नेहादिकर्मणामुपचारे सुखानि यानि कानि च तान्युपकल्पयेत् ।
सुप्रक्षालितेत्यादि । एवं सुप्रक्षालितोपधानाः शिलापुत्रा यासां तादृश्यः, श्लक्ष्णाश्च खराश्च मध्यमाथ हुपदः प्रस्तरशिला उपकल्पयेत् । तथोपकरणरूपाणि शस्त्राणि कुद्दालपशु कर्त्तरीदात्रादीनि ।
धूमनेत्रमित्यादि । तथा धूमनेत्रञ्चेत्यादिकमुपकल्पयेत् । उत्तरवस्तिकमुत्तरवस्तिनेत्रम् | कुशहस्तं रन्धनी, आर्द्रद्रव्यपरिपचनमित्यन्ये । तुलां तौलकरणाथों दण्डपालीम् । मानभाण्डं मानार्थं परिमाणभाण्डम् । घृत- तैलेत्यादि । घृतादीनि स्पष्टार्थानि । तथा शालीत्यादीनि च विभीतऊर्णा गडररोमाणि सुपक्षालितेत्यादौ उपधानः शिलापुत्र इति प्रसिद्धः, दृषदः पाषाणपट्टकाः, * उपवेशनेत्यधिकः पाठः ।
For Private and Personal Use Only